________________ लघी०१३ कारिकाव्याख्यानम् .. विशदस्वभावमेव ज्ञान प्रत्यक्षम् प्रमाणान्तरत्वान्यथानुपपत्तेः / नचायमसिद्धो हेतुः / तदन्तरत्वेनास्य वक्ष्यमाणत्वात् / तच्चैवंविधं प्रत्यक्षं द्वेधा प्रतिपत्तव्यम् / कथम् ? इत्याह-मुख्यसंव्यवहारतः इति / इन्द्रियाद्यनपेक्षं प्रतिबन्धकापायोपेतात्ममात्रनिबन्धनं स्वविषये निःशेषतो विशदम् अवधि-मनःपर्यय-केवलाख्यं ज्ञानं मुख्यतः प्रत्यक्षम् / - इन्द्रियनिमित्तं तु स्वविषये देशतो विशदं चक्षुरादिज्ञानं संव्यवहारतः प्रत्यक्षम् / कथं पु-५ तत्त्वसं० कारिका 1214 / “यत्किञ्चिदर्थस्य साक्षात्कारिज्ञानं तत्प्रत्यक्षम् उच्यते / " न्यायबि. टी. पृ. 11 / “इन्द्रियार्थसन्निकर्षोत्पन्नमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् / " न्या. सू० 1 / 1 / 4 / “अक्षस्य अक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम् , वृत्तिस्तु सन्निकर्षों ज्ञानं वा / " न्यायभा. पुं० 17 / न्या० वा. पृ०२८ / “सम्यगपरोक्षानुभवसाधनं प्रत्यक्षम् / " न्यायसार पृ० 2 / “आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् / " वैशे० द० 3 / 1 / 18 / “अक्षमक्षं प्रतीत्य उत्पद्यते इति .. प्रत्यक्षम् सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षाद् अवितथमव्यपदेश्यं यज्ज्ञानमुत्पद्यते तत् प्रत्यक्षं प्रमाणम्।" प्रशस्तपा० पृ० 186 / “इन्द्रियजन्यं ज्ञानम् प्रत्यक्षम् , अथवा ज्ञानाऽकरणकं ज्ञानं प्रत्यक्षम्।" मुक्तावली श्लो० 52 / न्यायबो० पृ. 47 // "साक्षात्काररूपप्रमाकरणं प्रत्यक्षम् / " न्यायसि. मं० पृ. 2 / तर्कभा० पृ० 5 / "प्रतिविषयाध्यवसायो दृष्टम् / " सांख्यका० 5 / "इन्द्रियप्रणालिकया चित्तस्य बाह्यचस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् / " योगद० व्यासभा• पृ. 27 / “यत्सम्बद्धं सत् तदाकारोल्लेखिविज्ञानं तत् प्रत्यक्षम् / " सांख्यद. 189 / "सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् / " मीमां० द. -1 / 1 / 4 / “साक्षात् प्रतीतिः प्रत्यक्षम् / " प्रकरणपं० पृ. 51 / “तत्र प्रत्यक्षप्रमायाः करणं प्रत्यक्षप्रमाणम् / प्रत्यक्षप्रम / चात्र चैतन्यमेव(पृ.१२)तथा च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याऽभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् / " वेदान्तपरि० पृ० 26 / आत्मेन्द्रियमनोऽर्थात् सन्निकर्षात प्रवर्तते। व्यक्ता तदात्वे या बद्धिः प्रत्यक्ष सा निरुच्यते / " चरकसं० 11 // 20 // - 1 प्रमाणान्तरत्वेन / 2 "इन्द्रियाऽनिन्द्रियानपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम् / " तत्त्वार्थराज० पृ. 38 / तत्त्वार्थश्लो० पृ० 184 / तत्त्वार्थसार 1 / 15 / “सामग्रीविशेषविश्लेषिताऽखिलावरणमतीन्द्रियमशेषतो मुख्यम् / ' परीक्षामुख 2 / 11 / न्यायदी० पृ० 10 / “पारमार्थिकं पुनरुत्पत्तौ आत्ममात्रापेक्षम् / " प्रमा० तत्त्वा० 2 / 18 / “तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् 1 / 1 / 15 / " तत्तारतम्ये अवधिमनःपर्ययौ।" प्रमाणमी०१।१।१८।३-यादिनि-भां० / “तदाह-हिताऽ हिताप्तिनिर्मुक्तिक्षममिन्द्रियनिर्मितम् / यद्देशतोऽर्थज्ञानं तद् इन्द्रियाध्यक्षमुच्यते // " न्या. वि. वि. पृ. 53 उ० "इंदियमणोभवं जं तं संववहारपच्चक्खम् // 95 // " विशेषा. भा० / "तत्र इन्द्रियप्रत्यक्षं सांव्यवहारिक देशतो विशदत्वात् / ' प्रमाणपरी० पृ. 68 / “गौणं तु संव्यवहारनिमित्तमसर्वपर्यायद्रव्यविषयम् इन्द्रियाऽनिन्द्रियप्रभवम् अस्मदाद्यध्यक्ष विशदमुच्यते / " सन्मति• टी० पृ. 552 / “इन्द्रियाs निन्द्रियनिमित्तं देशतः सांव्यवहारिकम् / " परीक्षामु० 2 / 5 / "इन्द्रियमनोनिमित्तोऽवग्रहेहावायधारणात्मा सांव्यवहारिकम् / " प्रमाणमी०१।१।२१। “देशतो विशदं सांव्यवहारिकम् / " न्यायदी० पृ. 9 / "तत्रेन्द्रियजमध्यक्षमेकांशव्यबसायकम् / " जैनतर्कवा०पृ०१००१४ दिगम्बराम्नाये अकलङ्कदेवैः, श्वेताम्बराम्नागेच