________________ 24 लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० इत्यनेन प्ररूपयति। वक्ष्यमाणलक्षण-वैशयेन यदुपलक्षितं ज्ञानं तदेव प्रत्यक्षम्। प्रयोगः फलम् इति मन्यन्ते / " मी० श्लो० न्यायर० पृ० 159 “निराकारो बोधोऽर्थसहभाव्येकसामग्रयधीनः तत्रार्थे प्रमाणम् इति वैभाषिकोक्तम् / " सन्मति० टी० पृ० 459 / “उपलब्धिहेतुश्च प्रमाणम् / " न्यायभा० पृ. 99 / न्यायवा० पृ० 5 / “सम्यगनुभवसाधनं प्रमाणम् / " न्यायसार पृ० 1 / " अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाऽबोधस्वभावा सामग्री प्रमाणम् / " न्यायमं० पृ. 12 / / "यथार्थानुभवो मानमनपेक्षतयेष्यते // 1 // मितिः सम्यक् परिच्छित्तिः तद्वत्ता च प्रमातृता / तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते // 5 // " न्यायकु० स्तबक 4 / “तद्वति तत्प्रकारकत्वरूपप्रकर्षविशिष्टज्ञानकारणत्वं प्रमाणत्वम् / " न्या० सू० वृ० पृ०६। “साधनाश्रयाऽव्यतिरिक्तत्वे सति प्रमाव्याप्त प्रमाणम् / " सर्वद० सं० पृ. 235 / “प्रमायाः करणं प्रमाणम् / " न्यायसि० मं० पृ० 1 / तर्कभा० पृ. 2 / “यथार्थ प्रमाणम् / " प्रमाणलक्षणटी० पृ० 1 / “अदुष्टं विद्या / " वैशे० सू० 9 / 2 / 1 / “अदुटेन्द्रियजन्यं यत्र यदस्ति तत्र तदनुभवो वा, विशेष्यवृत्तिप्रकारकानुभवो वा विद्या / " वैशे० उप० पू० 344 / “प्रमीयतेऽनेन इति निर्वचनात् प्रमा प्रति करणत्वं गम्यते / असन्दिग्धाऽविपरीताऽनधिगतविषया चित्तवृत्तिः बोधश्च पौरुषेयः फलं प्रमा, तत्साधनं प्रमाणमिति / " साङ्ख्य० कौ० पृ० 19 / योगद. तत्त्ववै० पृ. 27 / “द्वयोरेकतरस्य वाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत् तत् त्रिविधम् प्रमाणम् / " साङ्ख्यद० 1 / 87 / “अत्र यदि प्रमारूपं फलं पुरुषनिष्ठमात्रमेव अयते तदा बुद्धिवृत्तिरेव प्रमाणम्। यदि च बुद्धिनिष्ठमात्रमुच्यते तदा तु उक्तन्द्रियसन्निकर्षादिरेव प्रमाणम् / " सा. प्र. भा. 1187 / “प्रमाणं वृत्तिरेव च / " योगवा० पृ०३० / अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम् / " वेदान्तपरि० पृ० 17 / “एतच्च विशेषणत्रयमुपाददानेन सूत्रकारेण कारणदोषबाधकज्ञानरहितमगृहीतग्राहि ज्ञानं प्रमाणम् इति प्रमाणलक्षणं सूचितम् / " शास्त्रदी. पृ० 152 / “अनधिगतार्थगन्तृ प्रमागम् इति भट्टमीमांसका आहुः / " सि. चन्द्रोदय पृ० 20 / “अनुभूतिश्च प्रमाणम् / " शावरभा० बृह. 1 / 15 / प्रकरणपं० पृ. 42 / 3 प्रत्यक्षपरोक्षरूपेण द्विविधप्रमाणविभागस्य उल्लेखः निम्नपुरातनग्रन्थेषु दृश्यते-"ज परदो विण्णाणं तं तु परोक्खत्ति भणिदमत्थेसु / जं केवलेण णादं हवदि हु जीवेण पच्चक्खम् // 58 // " प्रवचनसार / “आद्ये परोक्षम् , प्रत्यक्षमन्यत् / " तत्त्वार्थसू० 1 / 11,12 / “दुविहे नाणे पण्णत्तं, तं जहा-पच्चक्खे चेव परोक्खे चेव / " स्थानाङ्गसूत्र 2 / 1 / 71 / “प्रत्यक्षञ्च परोक्षञ्च द्विधा मेयविनिश्चयात् / " न्यायाव० श्लो. 1 / धर्मकीर्तिकृतप्रमाणवार्तिके “न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य संभवः" (3163 ) इत्यादिना मेयस्य प्रत्यक्षपरोक्षरूपेण विभागो विद्यते। .. 1 "प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा // 3 // " न्यायविनिः / “इदमनन्तरोक्तं स्पष्टं विशद व्यवसायात्मकं ज्ञानम् , कथंभूतम् ? स्वार्थसन्निधानान्वयव्यतिरेकानुविधायि प्रतिसङख्यानिरोध्यविसंवादक प्रत्यक्षं प्रमाणं युक्तम् / " सिद्धिवि. टी. पृ. 96 उ०। “विशदज्ञानात्मकं प्रत्यक्षम् / " प्रमाणप. पृ. 67 / परीक्षामुख सू०२।३। “असहायं प्रत्यक्षम् / " पञ्चाध्यायी 11696 / “अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् / प्रत्यक्षम्''न्यायाव० श्लो० 4 / "प्रत्यक्षं विशदं ज्ञानम् / " जैनतर्कवा० पृ. 93 / “स्पष्टं प्रत्यक्षम् / " प्रमाण तत्त्वा० 2 / 2 / प्रमाणमी. 1 / 1 / 13 / “प्रत्यक्ष कल्पनापोडं नामजात्याद्यसंयुतम् // 3 // " प्रमाणस० पृ. 8 / "तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् / " न्यायबि• पृ० 16 //