________________ लघी० 113] कारिकाव्याख्यानम् शून्यवादिनोऽपि अस्ति प्रमाणम् , इष्टानिष्टयोः साधनदूषणाऽन्यथानुपपत्तेः। नचैवमनवस्था, इष्टसिद्धेः अनिष्टप्रतिषेधस्य च प्रतिप्राणि प्रसिद्धत्वेन अशेषवादिना निर्विवादतः प्रमाणान्तरापेक्षानुपपत्तेः। निराकरिष्यते च सकलशून्यता बाह्यार्थसिद्धयवसरे विस्तरतः इत्यलमतिप्रसङ्गेन / ननु सिद्धेऽपि प्रमाणसद्भावे तत्स्वरूपविशेषनिश्चयासिद्धिः, ज्ञानाऽज्ञानरूपतया तत्र वा दिनां विप्रतिपत्तेरित्याह-ज्ञानम् इति। यत् तदिष्टाऽनिष्टसाधनदूषणाफारिकाव्याख्यानम्- न्यथानुपपत्तितः प्रसाधितं प्रमाणं तज्ज्ञानम् प्रमाणत्वात् , यत् पुनर्ज्ञानं न __ भवति न तत् प्रमाणम् यथा घटादिः, प्रमाणञ्चेदं विवादापन्नम् , तस्माज्ज्ञानम् , इति प्रमाणसामान्यलक्षणम्। तच्चैतल्लक्षणलक्षितं प्रमाणं प्रत्यक्ष-परोक्षप्रकारेण द्विधाभिद्यते इत्येतत् 'प्रमाणे' इत्यनेन दर्शयति / तत्राद्यप्रकारस्वरूपं 'प्रत्यक्षं विशदम्' 1 “सम्यज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः / " प्रमाणप० पृ० 1 / प्रमेयक० पृ. 3 पू० / प्रमेयरत्न. पृ० 10 / स्या. रत्ना० पृ० 41 / २-ति सामान्यप्रमाण-ब० / प्रमाणस्य क्रमविकसितानि सामान्यलक्षणानि निम्नप्रकारेण द्रष्टव्यानि-“तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम् // 1.1 // " आप्तमी / “स्वपरावभासकं यथा प्रमाणं भुवि बुद्धिलक्षणम् // 63 // " वृ० स्वय। "प्रमिणोति प्रमीयतेऽनेन प्रमितिमात्रं वा प्रमाणम् / " सर्वार्थसि. पृ० 58 / त. राजवा० पृ. 35 / "प्रमाणमविसंवादिज्ञानमनधिगतार्थाधिगमलक्षणत्वात् / " अष्टश, अष्टसह पृ० 175 / “कोऽस्याऽतिशयः सकलप्रमेयव्यवस्थाहेतुत्वं यद्वक्ष्यते सिद्धं यन्नपरापेक्ष्यम् / (1) इत्यादि-सिद्धि वि० टी० पृ.३ उ० / एषैव कारिका ‘तदुक्तम् / इति निर्दिश्य उद्धृता न्यायविनिश्चयटीकायाम् (पृ० 30 उ० ) सिद्धं यन्न परापेक्ष्यं सिद्धौ स्वपररूपयोः, तत्प्रमाणं ततो नान्यदविकल्पमचेतनम् / " “तत्स्वार्थव्यवसायात्मज्ञानं मानम् // 77 // " तत्त्वार्थश्लो. पृ० 174 / प्रमाणप० पृ० 53 / “स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् / " परीक्षामुख 111 / “गेण्हइ वत्थुसभावं अविरुद्धं सम्मरूव जंणाणं / भणियं खु तं पमाणं पच्चक्खपरोक्खभेयेहिं // " नयचक्रसं० पृ 65 / आलापपद्धतिः पृ० 145 / पञ्चाध्यायी श्लो० 666 / तत्त्वार्थसार 1 / 1 // “प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् / 1 / " न्यायाव०। जैनतर्कवा० श्लो० 2 / “प्रमीयन्तेऽस्तैः इति प्रमाणानि / " तत्त्वार्थभा० 1112 / “प्रमाणं स्वार्थनिणांतिस्वभावं ज्ञानम् / " सन्मति.टी. पृ० 518 / “स्वपरव्यवसायि ज्ञानं प्रमाणम् / " प्रमा० त० 1 / 2 / जैनतर्कभा० पृ० 1 / “सम्यगर्थनिर्णयः प्रमाणम् / " प्रमाणमी० 1 / 1 / 2 / स्या० मं० पृ. 228 / “स्वसंवित्तिः फलं चात्र तद्रूपादर्थनिश्चयः / विषयाकार एवास्य प्रमाणं तेन मीयते // 10 // " प्रमा० स० पृ० 24 / “अज्ञातार्थज्ञापर्क प्रमाणम् इति प्रमाणसामान्यलक्षणम्" प्रमाणसमु० टी० पृ० 11 / “प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः / अविसंवादनं शाब्देऽप्यभिप्रायनिवेदनात् // " प्रमाणवा० 2 / 1 / न्यायबि० टी० पृ० 5 / " अर्थसारूप्यमस्य प्रमाणम् / " न्यायबि० पृ० 25 / “विषयाधिगतिश्चात्र प्रमाणफलमिष्यते / स्ववित्तिा प्रमाणं तु सारूप्यं योग्यताऽपि वा // 1344 // " तत्त्वसं० / “बाह्यर्थे प्रमेये..."सारूप्यं तु प्रमाणम् ज्ञानात्मनि तु प्रमेये..... 'योग्यता प्रमाणम् / " तत्त्वसं० पं० पृ. 398 / “योगाचारास्तु बाह्यार्थमपलपन्तो ज्ञानस्यैव अनादिवासनोपप्लावितः नीलपीतादिविषयाकारः प्रमेयम् , स्वाकारः प्रमाणम् , स्वसंवित्तिः