________________ ___ लघीयस्त्रयालंकारै न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० विस्तररुचिः, मध्यमरुचिश्चेति / स च त्रिविधोऽपि परः प्रत्येकं चतुर्धा भिद्यते-व्युत्पन्नः, अव्युत्पन्नः, सन्दिग्धः, विपर्यस्तश्च / तत्र व्युत्पन्नो विपर्यस्तश्च न प्रतिपाद्यः, व्युत्पित्साविरहात् / अव्युत्पन्नस्तु स्वभावतो व्युत्पित्सारहितोऽपि लोभभयादिना व्युत्पित्सायामुत्पादितायां व्युत्पाद्यो भवत्येव, यथा पितुः पुत्रः / सन्दिग्धोऽपि यदा स्वगतसंशयख्यापनपूर्वकम् 'अनयोः कः सत्यः 5 इति पूर्वापरपक्षयोः गुणदोषनिरूपणद्वारेण मां बोधयतु भवान्' इति तत्त्वज्ञानार्थमाचार्यमुपसर्पति तदैव व्युत्पित्सासंभवात् प्रतिपाद्यः, नान्यदा। ननु प्रसिद्धे प्रमाणे अभिधेयादिमत्ता शास्त्रस्य स्यात् , न च तत् प्रसिद्धम् / तस्य हि प्रसिद्धिः प्रमाणान्तरात्, तदन्तरेण वा ? यदि प्रमाणान्तरात्; तदानप्रासङ्गिकी प्रमाणसिद्धिः- वस्था, कुतः ? प्रमाणान्तरस्यापि प्रमाणान्तरात् प्रसिद्धिप्रसङ्गात् / प्रमाणान्तरमन्तरेण तत्सिद्धौ च सर्व सर्वस्येष्टं सिद्ध्येत्, तथा च सकलशून्यतासिद्धेरपि प्रसङ्गात् कथमस्याऽभिधेयादिमत्ता सिद्ध्येदिति ? तदसमीक्षिताभिधानम् ; सकलशून्यतामभ्युपगच्छताऽपि प्रमाणाभावस्य कर्तुमशक्यत्वात् / तथाहि-सकल- १“तत्त्वप्रतिपित्सायां सत्यां त्रिविधः प्रतिपाद्यः संशयितो विपर्यस्तबुद्धिः अव्युत्पन्नश्च / " तत्त्वार्थश्लो० पृ. 53 / “चत्वारो हि प्रतिपाद्याः व्युत्पन्नोऽव्युत्पन्नः सन्दिग्धो विपर्यस्तश्च / " लघी० 0 पृ. 6 / 2 "तत्र संशयितः प्रतिपाद्यः तत्त्वपर्यवसायिना प्रश्नविशेषेण आचार्य प्रति उपसर्पकत्वात् नाऽव्युत्पन्नो विपर्यस्तो वा तद्विपरीतत्वाद् बालकवद् दस्युवद्वा / " तत्त्वार्थश्लो. पृ० 52 / ३-स्य अन्यथा स्यात ननच आ०, ब०, ज०। 4 प्रमाणम् / 5 “प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः / " न्या. सू० 2 / 1 / 17 / यदि प्रत्यक्षादीनि प्रमाणेन उपलभ्यन्ते येन प्रमाणान्तरेण उपलभ्यन्ते तत् प्रमाणान्तरमस्तीति प्रमाणान्तरसद्भावः प्रसज्यते इत्यनवस्थामाह-तस्याप्यन्येन तस्याप्यन्येन इति, न च अनवस्था शक्याऽनुज्ञातुम् अनुपपत्तेरिति / " " तद्विनिवृत्तेवा प्रमाणसिद्धिवत् प्रमेयसिद्धिः" न्या. सू०२।१। 18 / “यदि प्रत्यक्षाद्युपलब्धी प्रमाणान्तरं निवत्तेते, आत्मेत्यपलब्धावपि प्रमाणान्तरं निर्वय॑ति अविशेषात् , एवं च सर्वप्रमाणविलोप इति / " न्यायभा० पृ० 107 / न्यायपा० पृ० 198 / “प्रमाणसिद्धिः परतो वा स्यात् स्वत एव वा ? यदि यथा प्रमेयसिद्धिः प्रमाणाधीना एवं प्रमाणसिद्धिरपि प्रमाणान्तराधीना इति तस्याप्यन्यत् तस्याप्यन्यत् इत्यनवस्था। अथ स्वत एव सिद्धिः एवमपि यथा प्रमाणस्य स्वत एव सिद्धिः तथा प्रमेयस्यापि प्रमेयात्मन एव सिद्धिरिति प्रमाणव्यवस्थाकल्पना न घटते।" तत्त्वा० राजवा० पृ. 35 / "ननु प्रमाणसंसिद्धिः प्रमाणान्तरतो यदि / तदानवस्थिति! चेत् प्रमाणान्वेषणं वृथा // 134 // " तत्त्वा० श्लो. पृ० 178 / ६-द्धरति प्र-भां० / 7 शास्त्रस्य / ८-मत्त्वम भां०। ९“अभावैकान्तपक्षेऽपि भावापहववादिनाम्। बोधवाक्यं प्रमाणं न केन साधनदूषणम् // 12 // " आप्तमी / "बोधस्य स्वार्थसाधनदृषणरूपस्य वाक्यस्य च परार्थसाधनदूषणात्मनोऽसंभवात् न प्रमाणम् , ततः केन साधन नैरात्म्यस्य स्वार्थ परार्थ वा केन दूषण पहिरन्तश्च भावस्वभावानाम्......"बहिरन्तश्च परमार्थसत् तदन्यतरापायेऽपि साधनदूषणप्रयोगाऽनुपपत्तेः / " अष्ठसह. पृ० 115 / “स्वेष्टाऽनिष्टार्थयोझतुर्विधानप्रतिषेधयोः / सिद्धिः प्रमाणससिद्धयभावेऽ स्ति न हि कस्यचित् // 133 // " तत्त्वार्थश्लो० पृ. 178 /