________________ लघी० 1 / 3] सम्बन्धाभिधेयादिविचारः विकृतिः-सन्निकर्षादेरज्ञानस्य प्रामाण्यमनुपपन्नम् अर्थान्तरवत् / ने वै 'ज्ञानम्' इत्येव प्रमाणम् , संशयविपर्यासकारणस्य अकिश्चित्करस्य च ज्ञानस्य भावाऽविरोधात् / नहि 'तत्त्वज्ञानम् ' इत्येव यथार्थनिर्णयसाधनमित्यपरः, तेनापि तत्त्वनिर्णय प्रति साधकतमस्य ज्ञानस्यैव प्रामाण्यं समयंत, वस्तुबलायाततदर्थान्तरस्यापि परम्परया तत्कारणतोपपत्तेः / तन्न अज्ञानस्य प्रमाणता अन्यत्रोपचारात् / ज्ञानस्यैव 5 विशदनिर्भासिनः प्रत्यक्षत्वम्, इतरस्य परोक्षता / विधी हि शास्त्राणां प्रवृत्तिः-उद्देशः, लक्षणम् , परीक्षा चेति / तत्र नाममात्रेणार्थानामभि . धानम् उद्देशः / उद्दिष्टस्य स्वरूपव्यवस्थापको धर्मः लक्षणम् / उहिशास्त्रस्य सम्बन्धा " टस्य लक्षितस्य च 'यथावल्लक्षणमुपपद्यते न वा' इति प्रमाणतोऽर्थाव- .. भिधेयादिसमर्थनम् धारणं परीक्षा। विभौगश्च उद्देश एवान्तर्भवति, सामान्यसंज्ञया हि 10 कीर्तनम् उद्देशः, प्रकारभेदसंज्ञया कीर्तनं विभागः इति / तत्र प्रत्यक्षतरप्रमाणभेदाः श्रुतभेदाश्च नयनिक्षेपाः लक्षण-सङ्खया-विषय-फलसम्पत्समन्विताः शास्त्रस्यास्याभिधेयाः इत्युहेशतः सकलशास्त्रार्थस्याभिधेयस्यानेन प्रतिपादनाद् अभिधेयरहितत्वाशङ्काव्युदासः / तेन च सहास्य वाच्यवाचकभावलक्षणः सम्बन्धः इति सम्बन्धरहितत्वारेकानिरासः / शक्यानुष्ठानेष्टप्रयोजनं तु साक्षात् तल्लक्षणव्युत्पत्तिरेव, परम्परया तु अभ्युदयनिःश्रेयसावाप्तिः / परव्युत्पादनार्था हि 15 शास्त्रकृतः प्रवृत्तिः / नचाभिधेयादिरहितं शास्त्रं कुर्वता परो व्युत्पादितो भवति, तथाविधस्यास्य परप्रतीरकत्वप्रसङ्गात् / स च व्युत्पाद्यत्वेनाभिप्रेतः परस्त्रिधा भिद्यते-सङ्केपरुचिः, 1 न विज्ञान-ज० वि० / 2 "त्रिविधा चास्य शास्त्रस्य प्रवृत्तिः-उद्देशो लक्षणं परीक्षा चेति / तत्र नामधेयेन पदार्थमात्रस्य अभिधानम् उद्देशः / तत्र उद्दिष्टस्याऽतत्त्वव्यवच्छेदको धर्मो लक्षणम् / लक्षितस्य यथा लक्षणमपपद्यते न वेति प्रमाणैरवधारणं परीक्षा / " न्यायभा० पृ. 17 / न्यायमं० पृ. 12 / न्यायसू० वृ० पृ० 3 / “पदार्थव्युत्पादनप्रवृत्तस्य शास्त्रस्य उभयथा प्रवृत्तिः उद्देशो लक्षणञ्च / परीशायास्तु न नियमः / " प्रश० कन्दली पृ० 26 / 3 "परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणम् / " तत्त्वार्थराजवा० पृ० 82 / “समानासमानजातीयव्यवच्छेदो लक्षणार्थः / " न्यायमं० पृ० 65 / प्रश० कन्दली पृ० 26 / “एतद्रूषणत्रयरहितो धर्मो लक्षणम् , यथा गोः सास्नादिमत्त्वम् / स एव असाधारणधर्म इत्युच्यते / " तर्कसं० दी० पृ० 5 / तर्कभाषा पृ० 1 / 4 “उद्दिष्टविभाग उद्देश एवातभवति" न्यायवा० पृ० 28 / “ननु च विभागलक्षणा चतुर्थ्यपि प्रवृत्तिरस्त्येव'...."उद्देशरूपानपायात्तु उद्देश एव असो / सामान्यसंज्ञया कीर्तनमुद्देशः प्रकारभेदसंज्ञया कीर्तनं विभाग इति / " न्यायम० पृ. 12 / प्रश० कन्दली पृ० 26 / ५-यानुकी-आ०, ब०, ज० / 6 प्रमाणादिलक्षण / 7 शास्त्रकारस्य / ८-प्रभारक-आ०, ब०, ज० / 9 “केचित् सक्षेपरुचयः, अपरे नाऽतिसझेपेण नातिविस्तरेण प्रतिपाद्याः " सर्वार्थसि० पृ० 13 / तत्त्वार्थरा० वा. पृ० 31 /