________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० नापेक्षया बद्धस्यैव मोक्षः, इत्यप्यनल्पतमोविलसितम् ; सन्तानस्यैवोक्तप्रकारेण असंभवात् / तथा निहित-मन्त्रिता-ऽधीतस्मृतिः दत्तग्रहादिश्च एकात्माऽपह्नवे दुर्घट इति / तदेवं कण्टकशुद्धिं विधाय स्वमते प्रमाणादिलक्षणप्ररूपणार्थ शास्त्रमिदमुपक्रमते / नेनु सम्बन्धा-ऽभिधेय-शक्यानुष्ठानेष्टप्रयोजनवन्ति शास्त्राणि प्रेक्षावद्भिराद्रियन्ते नेतराणि। अतः 5 शास्त्रमिदमारभ्यमाणमभिधेय-तत्सम्बन्धवत् , तद्रहितं वा स्यात् ? यदि तद्रहितम् / तत्प्रारम्भ प्रयासो निष्फलः स्यात्, उन्मत्तवाक्यवत् प्रेक्षावतामनादरणीयत्वात् / तद्वच्चेदस्तु, तथापि तदभिधेयं निष्प्रयोजनम् , प्रयोजनवद्वा स्यात् ? निष्प्रयोजनं चेत् ; तर्हि तत्प्रारम्भप्रयासो व्यर्थः काकदन्तपरीक्षावत् तत्र प्रामाणिकानामादराऽसंभवात् / अथ प्रयोजनवत्; तत् किमभिमत प्रयोजनवत्, अनभिमतप्रयोजनवद्वा ? अनभिमतप्रयोजनवत्त्वे मातृविवाहोपदेशवत् नितरा१. मनादरणीयत्वम् / अभिमतप्रयोजनवत्त्वेऽपि तत्प्रयोजनस्याऽशक्यानुष्ठानत्वे सर्वज्वरहरतङ्क्षक चूड़ारत्नालंकारोपदेशवत् कथं कस्यचित्तत्रोपादेयता स्यात् ? इत्यारेकापनोदार्थमक्षुण्णसकलशास्त्रार्थसंग्रहसमर्थमादिश्लोकमाह प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः। परोक्ष शेषविज्ञानं प्रमाणे इति संग्रहः // 3 // इति 1 "बुद्धिसन्ततिमात्रे च सत्त्वभेदात् सर्वमिदं प्राणिव्यवहारजातमप्रतिसंहितमव्यावृत्तमपरिनिष्ठितञ्च स्यात् ततः स्मरणाऽभावात् / " न्यायभा० पृ. 315 / “एवं तु निष्प्रमाणे पदार्थाऽस्थैर्यपक्षे ज्ञानं तु जनकस्य नियतस्य वस्तुनो दर्शनं दर्शनविषयीकृतस्य प्रवृत्तिः, प्रवृत्तिविषयीकृतस्य प्राप्तिः इति व्यवहारो न स्यादर्थक्षणनानात्वात्... 'पूर्वदृष्टस्य स्मरणं स्मृतस्य कस्यचित् प्रत्यभिज्ञानं प्रत्यभिज्ञातस्य गृहादेरर्धकृतस्य समापनम् इत्यादयश्च व्यवहारा विलुप्येरन् / " न्यायमं० पृ. 464 / 2 “अभिधेयं तु यदि निष्प्रयोजनं स्यात् तदा तत्प्रतिपत्तये शब्दसन्दर्भोऽपि नारम्भणीयः स्यात् यथा काकदन्तप्रयोजनाऽभावात् न तत्परीक्षा आरम्भणीया प्रेक्षावता...."सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्तन्ते, ततश्च आचार्येण प्रकरणं किमर्थं कृतं श्रोतृभिश्च किमर्थं श्रूयते इति संशयव्युत्पादनं प्रयोजनमभिधीयते". अनुक्तेषु तु प्रतिपत्तृभिः निष्प्रयोजनमभिधेयं सम्भाव्येत अस्य प्रकरणस्य काकदन्तपरीक्षावत् / अशक्यानुष्ठान वा सर्वज्वरहरतक्षकचूड़ारत्नालंकारोपदेशवत् / अनभिमतं वा प्रयोजनं मातृविवाहक्रमोपदेशवत् / " न्यायबि० टी० पृ. 2 / सम्बन्धाभिधेयाद्यनुबन्धचतुष्टयंस्य व्यस्त-समस्तरूपेण चर्चा निम्नग्रन्थेषु द्रष्टव्या / माध्यमिक वृ० पृ. 3 / हेतुबे० टी०१०१। बोधिचर्या. पं० पृ. 5 / तत्त्वसं० पं० पृ. 2 / मीमांसाश्लो० पृ० 4 / सम्बन्धवा० पृ. 7 / माण्डूक्य. गौड़पा० शाङ्करभा० पृ. 4 / शास्त्रदी. पृ. 4 / न्यायवा• ता० टी० पृ. 4 / न्यायमं० पृ. 6 / सिद्धवि० टी० पृ. 4 पू० / तत्त्वार्थश्लो० पृ. 3 / जनतर्कवा० पृ० 2 / प्रमेयक० पृ० 2 / सन्माते० टी० पृ. 169 / स्या० रत्ना• पृ० 14 / रत्नाकराव० पृ० 5 / ३-वद्वा निष्प्र-आ०, ब०, ज० / ४-तक्ष चू-भा० / ५"प्रत्यक्ष विशद ज्ञान त्रिधा श्रुतमविप्लुतम् / परोक्षं प्रत्यभिज्ञादि प्रमाणे इति संग्रहः // 1 // " प्रमाणसं०। 6 “तत्प्रमाणे / " तत्त्वार्थसू० 1 / 10 /