________________ लघी० 1 / 2] . सन्तानवादः - यदप्यभिहितम्-'नित्यैकरूपत्वे चात्मनः क्रमयोगपद्याभ्यामर्थक्रियाकारित्वानुपपत्तिः' इत्यादि; तदप्यसम्यक् ; नित्यैकरूपत्वस्यात्मनोऽनभ्युपगमात् , तस्य परिणामिनित्यताप्रतिज्ञानात् / तत्र च क्रमयोगपद्याभ्यामर्थक्रियाकारित्वं यथा संभवति तथाऽक्षणिकत्वसिद्धिप्रघट्टके प्रतिपादयिष्यते / ___ यदप्युक्तम्-'सुखादीनां क्रमभुवामात्मा व्यापको भवन् किमेकेन स्वभावेन भवति अनेकेन वा' इत्यादि ; तदप्यसङ्गतम् ; अनेकस्वभावेनैव तेन तेषां व्याप्यत्वात् / नचैर्वमनवस्था अन्त- 5 रभूतानां तेषामर्थान्तरभूतैः स्वभावैर्व्याप्त्यनभ्युपगमात् , तद्रूपतया परिणामो हि तव्याप्तिः चित्रहोने नीलाद्याकारव्याप्तिवत् / नहि तद्रूपतया परिणतेरन्या तत्र तदाकारव्याप्तिरस्ति, तज्ज्ञानात् तदाकाराणामर्थान्तरत्वानभ्युपगमात्, अभ्युपगमे वा तहोषोपनिपातप्रसक्तिः / अथ चित्र - ज्ञानस्य नीलाद्याकारात्मकतया तद्वयापिनः स्वयं संवेदनान्न तत्प्रसक्तिः; तर्हि आत्मनोऽपि सह क्रमेण च सुखाद्यनेकाकारव्यापिनः स्वयं संवेदनात् कथं तदोषोपनिपातः स्यात् ? नहि दृष्टेऽ- 10 नुपपत्तिर्नाम। "तदपह्नवे च बन्धमोक्षयोरभावः स्यात् तयोरेकाधिकरणत्वात् ; तथाहि-विवादापन्नौ बन्धमोक्षौ एकाधिकरणौ तत्त्वात् लोकप्रसिद्धबन्धमोक्षवत् / सर्वथा भेदे हि बद्ध-मुक्तपर्याययोः 'अन्यो बद्धः अन्यश्च मुच्यते' इति बद्धस्यैव मोक्षार्था प्रवृत्तिर्न स्यात् / सन्ता तेषां वास्यवासकभावो युज्यते, स्थिरस्य सम्बद्धस्य च वस्त्रादेः मृगमदादिना वास्यत्वं दृष्टमिति / " स्या० म० पृ० 160 / 1 पृ. 8 पं० 2 / 2 “जीवो अणाहिनिहणो परिणममाणो हु णवण भाव // 231 // " स्वामिकार्तिः / 3 पृ. 8 पं० 15 / तुलना-" स्यान्मतं सुखादीनां चैतन्यं व्यापकं भवत् किमेकेन स्वभावेन भवति अनेकेन वा ? यद्येकेन...तदेतत् चित्रज्ञानेऽपि समानम् / " अष्ट सह० पृ. 77 / “कथमेकः पुरुषः क्रमेण अनन्तान् पर्यायान व्याप्नोति ? न तावदेकेन स्वभावेन सर्वेषामेकरूपतापत्तिः "तेऽपि दूषणाभासवादिनः; कथम् ? क्रमतोऽनन्तपर्यायान् एको व्याप्नोति ना सकृत् / यथा नानाविधाकारांश्चित्रज्ञानमनंशकम् // 154 // " तत्त्वार्थश्लो० पृ. 34 / आप्तप० पृ०४४ / ४-को भवति किमेकेन स्वभावेन न भवति अनेकेन न वा भा० / 5 सुखादीनाम् / ६-चैवान-आ०, ब०, ज०। ७–ज्ञाननी-भा० / ८-न्या तदाआ०, ब०, ज०।९ चित्रज्ञानात् / 10 "तस्य पीताद्याकारव्यापिनः स्वयं संवेदनान्न तत्प्रसक्तिः / तर्हि आत्मनोऽपि सह क्रमेण च सुखाद्यनेकाकारव्यापिनः स्वयं संवेदनात् कथमुपालम्भः स्यात् , नहि दृष्टेड नपपन्न नाम / " अष्टसह. पृ. 77 / स्या. रत्ना० पृ० 1092 / 11 अनवस्था। 12 सुखाद्यनेकाकारव्यापिन आत्मनोऽपह्नवे / तु.-"न बन्धमोक्षौ क्षणिकैकसंस्थौ” युक्त्यनु० श्लो० 15 / “आत्मापलापे पन्धमोक्षयोरप्यभावः स्यात् तयोरेकाधिकरणत्वेन प्रतीतेः।" स्या. रत्ना० पृ. 1092 / "बुद्धिसन्ततिमात्रे तु न कश्चिद् दीर्घमध्वानं संधावति न कश्चित् शरीरप्रबन्धाद् विमुच्यते इति संसारापवर्गाsनुपपत्तिः / " न्यायभा० पृ. 315 / 13 बन्धमोक्षत्वात् / तत्वसंग्रहे कर्मफलसम्बन्धपरीक्षायां पूर्वपक्षरूपेण कस्यचिदुक्तिः–“एकाधिकरणावेतौ बन्धमौक्षौ तथास्थितेः / लौकिकाविव ती तेन सर्व चारुता स्मृतम् // 499 // "