________________ 18 लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० नवदन्यत्वात् / न च पूर्वबुद्धिविशेषात् तच्छेक्तयनुविधानेन उत्तरं बुद्धयन्तरमुत्पद्यते, अतः संस्कारादेः संभव इत्यभिधातव्यम् ; पूर्वबुद्धिविशेषस्यानुभवरूपत्वात् तत्प्रभवबुद्धचन्तरस्यापि अनुभवरूपस्यैवोत्पत्तिप्रसङ्गात् / . प्रमातुरन्वितत्वाऽभावे च आम्रफलादिरूपोपलम्भे तद्रूपाविनाभाविषु गन्धरसादिषु विभि६ अप्रमातृवत् स्मरणपूर्वकस्यैवाभिलाषादेरनुपपत्तेस्तदुपभोगाय प्रवत्तिरतिदुर्घटा स्यात् / इष्टॉनि टयोः प्राप्तिपरिहारेच्छा हि अनुभवस्मरणाधारैकप्रमातृनिष्ठा तदनन्तरं नियमेनोत्पद्यमानत्वात् , या तु नैकप्रमातृनिष्ठा नासौ तदनन्तरं नियमेनोत्पद्यते यथा देवदत्तानुभूते यज्ञदत्तस्येच्छा , अनुभवाद्यनन्तरं नियमेनोत्पद्यते च तत्प्राप्तिपरिहारायेच्छेति / न खलु विभिन्नकर्तृकत्वे देववत्तेनानुभूते इष्टेऽनिष्टे वाऽर्थे तत्प्राप्तिपरिहाराय यज्ञदत्तस्येच्छा प्रादुर्भवन्ती प्रतीयते, अतो 10 विभिन्नकर्तृकत्वाद् व्यावर्तमानेयम् एककर्तृकत्वेनैव व्याप्यते, ततो 'य एवानुभवति स्मरति च स एवेच्छति' इत्येकप्रमातृसिद्धिः / अथ एकप्रमात्रभावेऽपि वासनावशादेवेच्छा प्रभवतीत्युच्यते; ननु सा वासना वस्तु, अवस्तु वा स्यात् ? वस्तुत्वे नाममात्रभेदः 'वासना, आत्मा' इति च / अवस्तुत्वे गगनाम्भोरुहवत् तद्धेतुत्वानुपपत्तिः। क्षणिकैकान्ते च वास्यवासकभावाऽसंभवः, स्थितस्य स्थितेन तदर्शनात वस्त्रधूपादिवत् / 1 पूर्वबुद्धिविशेषगतशक्ति / 2 उपलादि-आ०, ब०, ज० / तुलना-“इन्द्रियान्तरविकारात्” न्यायसू०३।१।१२। “कस्यचिदम्लफलस्य गृहीततद्रससाहचर्य रूपे गन्धे वा केनचिदिन्द्रियेण गृह्यमाणे रसनस्य इन्द्रियान्तरस्य विकारो रसानुस्मृतौ रसगर्धिप्रवर्तितो दन्तोदकसम्प्लवभूतो गृह्यते / तस्य इन्द्रियचैतन्येऽनुपपत्तिः नान्यदृष्टमन्यः स्मरति / " न्यायभा० पृ. 229 / “प्रमातुरेकस्याऽभावे च आम्लादिरूपोपलम्भे तद्रूपाविनाभाविषु गन्धरसादिषु विभिन्नप्रमातृवत् स्मरणपूर्वकस्य इच्छाभिलाषादेरनुपपत्तेः तदुपभोगाय प्रवृत्तिरिति दुर्घटा स्यात् ....'स्यारत्ना० पृ० 1091 / ३-त्तिरिति-आ०, ब०, ज०।। 4" इच्छा नाम तावदित्थमुपजायते-यज्जातीयमर्थमित्थमुपयुञ्जानः पुरुषः पुरा सुखमनुभूतवान् पुनःकालान्तरे तज्जातीयमुपलभ्य सुखसाधनतामनुस्मृत्य तमादातुमिच्छति सेयमनेन क्रमेण समुपजायमाना इच्छा पूर्वाऽपरानुसन्धानसमर्थमाश्रयमनुमापयति / " न्यायमं० पृ० 434 / “इष्टानिष्टयोः विवादापन्ना प्राप्ति‘परिहारेच्छा अनुभवस्मरणाधारकप्रमातृनिष्टा......"स्या० रत्ना० पृ० 1091 / 5 इच्छा। ६-तृत्वे"आ०, ब०, ज० / 7 तुलना-"ज्ञातरि प्रत्यभिज्ञां च वासना कर्तुमर्हति // 124 // " मी० श्लो० पृ० 720 / वास्यवासकभावाचेत् नैतत्तस्याप्यसंभवात् / असंभवः कथं न्वस्य विकल्पाऽनुपपत्तितः // 325 // वासकाद्वासना भिन्ना अभिन्ना वा भवेद् यदि / " शास्त्रावात 0 / “नीलवासनया नीलविज्ञानं जन्यते यथा / तथैव प्रत्यभिज्ञेयं पूर्वतद्वासनोद्भवा // 172 // " तत्त्वार्थ श्लो० पृ. 37 / 8 “अस्थिरत्वाद्बुद्धीनाम् , "स्थिरं हि वासकेन वास्यमानं दृष्टम् / " न्यायवा० पृ०६६ / “अवस्थिता हि वास्यन्ते भावा भावैरक"स्थितैः // 185 // " मी० श्लो० पृ० 262 / “भिन्नकालक्षणानामसंभवद्वासनत्वादकार्यकारणवत् / " अष्ट'स०, अष्टसह पृ० 182 / “पूर्वचित्तस्य वासकता अपरस्य वास्यता न भवत्येव कुत इत्याह-प्रत्यासत्तेरभावात्" सिद्धिवि० टी० पृ. 197 उ० / “न च अस्थिराणां भिन्नकालतया अन्योन्याऽसम्बद्धानाञ्च