________________ 17 लघी० श२]. सन्तानवादः किञ्चिद्वस्तु; किं तर्हि ? प्रतिनियतार्थावभासिज्ञानेषु अहमहमिकया प्रतिप्राणि भासमानमन्वितं चिद्रूपम् , तदनभ्युपगमे प्रतिसन्धानवात्तॊच्छेदः स्यात् / न हि अन्येनानुभूते घटे अन्यस्य 'स एवायं घटः' इति प्रतिसन्धानं प्रतीतम् , अन्यथा प्रथमदर्शनेऽपि तत् स्यात्। अथ द्वितीयदर्शने सत्येव तद् भवति, नन्वेकस्यावस्थातुः तद् द्वितीयदर्शनम् , अनेकस्य वा ? यद्येकस्य; अस्मन्मतसिद्धिः। अनेकपक्षे तु एकावस्थातरहितत्वात् देवदत्तदर्शनानन्तरं यज्ञदत्तदर्शन इव 5 प्रतिसन्धानानुपपत्तिः, नहि देवदत्तानुभूतमर्थ यज्ञदत्त इत्थं प्रतिसन्धत्ते 'यमहमद्राक्षं देवदत्तः तमेवाहं यज्ञदत्तः स्पृशामि' इति, एतत्तु स्यात् 'तेन दृष्टं स्पृशामि' इति / क्षणिकचित्तपक्षे तदपि वा न स्यात् ; पूर्वोत्तरचित्तक्षणयोविभिन्नकालवतोऽन्योऽन्यार्थदर्शनाऽभावात्, अ. भिन्नकालयोरेव हि देवदत्त-यज्ञदत्तयोः अन्योन्यार्थदर्शने सति 'तेन दृष्टं स्पृशामि' इति प्रतिसन्धानं प्रतीतम / ___ यदपि 'सादृश्यात् प्रदीपवत् प्रतिसन्धानम्' इत्युक्तम्", तदप्ययुक्तम्" दृष्टान्त-दार्टान्तिकयोवैषम्यात् , प्रदीपादौ हि प्रमातुरवस्थाने सति विषयभेदेऽपि सादृश्यात् प्रतिसन्धानं युक्तम् , नात्र, प्रमातृ-प्रमेययोरत्यन्तभेदात् / न हि अन्येन दृष्टेऽन्यस्य सादृश्यात् 'मया दृष्टोऽयम्' इति प्रतिसन्धानं दृष्टम् , 'सोऽयम्' इत्यादिज्ञानं हि स्मृतिमपेक्षते, स्मृति: संस्कारम् , सोऽप्यनुभवमित्यनुभवादिज्ञानमुक्ताफलानामनुस्यूतकप्रमातृसूत्रानुप्रवेशे सत्येव 'अनुभवात् स्मृतिः' 15 इत्याद्युपपद्यते, नान्यथा / प्रदीपवत् 'प्रैमातुर्मुहुर्मुहुर्निरन्वयनिवृत्तौ पूर्वोत्तरदर्शिनो भिन्नसन्ता... 1 “अहमहमिकयात्मा विवाननुभवन् अनादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां ....गुणपर्यायानात्मसात्कुर्वन् सन्नेव सिद्धः / " अष्टसह० पृ० 128 / 2 प्राणिप्रति आ०, ब०, ज० / 3 प्रत्यभिज्ञान / 4 " स्थित्यभावे हि प्रमातुः अन्येन दृष्टं नाऽपरः प्रत्यभिज्ञातुमर्हति / " अष्टसह. पृ० 205 / 5 नत्वेकस्यावस्थान: आ०, ब०, ज०। ६-तुः द्वि-भां० / 7 'तेन दृष्टं स्पृशामि' इत्यपि / ८-लतोऽन्यार्थ-आ०, ब०, ज० / 9 अन्यार्थ-भां० / 10 पृ. 7 पं० 8 / 11 “साढश्यात् प्रत्यभिज्ञा चेत् न स्यादसदृशेषु सा // 121 // गामहं ज्ञातवान् पूर्वमश्वं जानाम्यहं पुनः // " मीमां० श्लो० पृ० 720 / “स यदि ब्रूयात् सादृश्यादेतत् संपत्स्यत इति, तं प्रति ब्रूयात् 'तेनेदं सदृशम् ' इति, द्वयायत्तत्वात् सादृश्यस्य / क्षणभङ्गवादिनः सदृशयोद्धयोर्वस्तुनोः गृहीतुरेकस्याऽभावात् सादृश्यनिमित्तं प्रतिसन्धानम् इति मिथ्याप्रलाप एव स्यात् / " ब्रह्म सू० शा. भा० 2 / 2 / 25 / “सादृश्यात् प्रत्यभिज्ञानं कृत्तकेशनखादिवत् / इति चेन्नैतदेवं स्यात् सादृश्याऽसंभवात्तव // 664 // सादृश्याऽसंभवश्चापि सर्वस्य क्षणिकत्वतः / नाप्यनेकार्थदर्यस्ति सादृश्यं स्याद्यतस्तव // 665 // " बृहदा० वा. पृ. 1496 / “सादृश्यात् प्रत्यभिज्ञानं न सभागनिबन्धनम् / " न्या० वि० पृ. 470 पू० / “सादृश्यात् प्रत्यभिज्ञानं नानासन्तानभागिनाम् / भेदानामिति तत्रापीत्यदृष्टपरिकल्पनम् // 147 // तदेवेदमिति ज्ञानादेकत्वस्य प्रसिद्धितः / सर्वस्याप्यस्खलद्रूपात् प्रत्यक्षाद्भेदसिद्धिवत् // 148 // " तत्त्वार्थश्लो० पृ. 33 / “यदप्युक्तम्-'सादृश्यादेव तत्संभवात् प्रदीपवत्' इति; तदपि नावदातम् ; दृष्टान्तदान्तिकयोवैषम्यात् / " स्या० रत्ना• पृ. 1090 / 12 इति संधानं-आ०, ब०, ज० / 13 प्रमातुमुहुनि-आ०, ब०, ज० /