________________ लघीयनयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० प्रत्यभिज्ञानान्यथानुपपत्तेश्च ; नहि 'यमहमद्राक्षमेतर्हि तमेव स्पृशामि' इति एकानुसन्धातृव्यतिरेकेणैवंविधमनुसन्धानं संभवति, प्रतिक्षणमाविर्भवतामपरापरज्ञानानां परस्परस्वरूपाऽनभिज्ञतया अन्योन्यं प्रत्यवमर्शाऽसामर्थ्यात् / यत् परस्परस्वरूपानभिज्ञं न तद् अन्योन्यप्रत्यवमर्शसमर्थम् यथा देवदत्त-यज्ञदत्तविज्ञानम् , परस्परस्वरूपानभिज्ञं च उक्तप्रकार रूपस्पर्शादिज्ञानमिति / अथ एकमेवोभयप्रतिसन्धानात्मकमेतज्ज्ञानमिष्यते; कथमेवं क्षणिकवादः तदात्मनो ज्ञानस्याऽनेकक्षणस्थायित्वात् ? कथं वा नैरात्य॑वादः तस्यैवाऽऽत्मत्वोपपत्तेः ? एकस्य ग्रहण-स्मरणानुसन्धातुः सिद्धत्वात् / न खलु ज्ञानादर्थान्तरमात्मानं प्रतिजानीमः, पूर्वोत्तरचिद्विवर्त्तवर्तिनोऽनुस्यूतचैतन्यस्य आत्मत्वप्रतिज्ञानात् / न हि प्रमाता नाम अननुभूतपूर्व 1 भारतीयदर्शनेषु सर्वत्रैव प्रत्यभिज्ञानादेव आत्मनित्यत्वसिद्धिः दृश्यते / तथाहि -" दर्शन-स्पर्शनाभ्यामेकार्थग्रहणात् / 3 / 1 / 1 / " न्यायसू० / “यमहमद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामि इति, यं चास्पार्श स्पर्शनेन तं चक्षुषा पश्यामि इति / एकविषयौ चेमौ प्रत्ययौ एककर्तृको प्रतिसन्धीयेते" न्याय भा० पृ० 218 / " नहि भवति यद्रूपमद्राक्ष सोऽयं स्पर्श इति, नापि भवति यत् स्पर्शमस्पार्क तद्रूपं पश्यामि' इति / नापि देवदत्तदृष्टे यज्ञदत्तप्रतिसन्धानं दृष्टम् , नहि भवति देवदत्तो यमाद्राक्षीत् यज्ञदत्तः तमद्राक्षम् इति / किं कारणम् ? बुद्धिभेदानां प्रतिनियतविषयत्वात् इति / प्रतिनियतविषया इतरेतरव्यावत्तिरूपा नैरात्म्यवादिनो न भवन्ति इति न युक्तं प्रतिसन्धानम् , तस्मात् यः प्रतिसन्धाता स आत्मा इति।" न्याय वा० पृ० 64 / “स्मरणप्रत्यभिज्ञाने प्रत्युत स्थैर्यसाधके / एवञ्च वञ्चनामात्रम् आशुनाशित्वदेशना / " ..... "इत्यादि, न्यायमं० पृ. 444 / " अनुस्मृतेश्च" ब्रह्म सू० 2 / 2 / 25 / “कथं हि 'अहमदोऽद्राक्षम् इदं पश्यामि' इति च पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात् / अपि च दर्शनस्मरणयोः कर्त्तर्येकस्मिन् प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धः ‘अहमदोऽद्राक्षमिदं पश्यामि' / यदि हितयोभिन्नः कर्तास्यात् ततोऽहं स्मरामि अद्राक्षीदन्यः इति प्रतीयात् , नत्वेवं प्रत्येति कश्चित्..."तथा अनन्तरामनन्तराम् आत्मन एव प्रतिपत्तिं प्रत्यभिजानन् एककर्तृकामोत्तमादुच्छ्वासाद् अतीताश्च प्रतिपत्तीराजन्मनः आत्मैककर्तृकाः प्रतिसन्दधानः कथं क्षणभङ्गवादी वैनाशिको नाऽपत्रपेत् ?" ब्रह्म सू० शां० भा० / " प्रत्यभिज्ञायते कर्ता यः पूर्वापरकालयोः / तस्य स्थानोः स्फुटो भेदो विज्ञानात् क्षणभङ्गुरात् // विषयप्रत्यभिज्ञानानुपत्तेज्ञातुरेकत्त्वकल्पनायां स्यादप्येतदुत्तरम् ‘सन्तानकत्वादेव उपपद्यते' इति / यदा तु ज्ञातवैकः पूर्वापरकालयोः प्रत्यभिज्ञायते 'योऽहं पूर्वमद्राक्षं स एवाऽमनुपश्यामि' इति तदा प्रत्यभिज्ञयव ज्ञातुरेकत्वावगमात् , विज्ञानस्य च क्षणिकत्वात् ततोऽन्यो ज्ञाता सिद्धो भवतीति / " शास्त्रदी० पृ. 475 / प्रत्यभिज्ञान तु भिन्नकर्तृकेभ्यो व्यावतमानमेककर्तृ कतायां पर्य्यवस्यति / " वैशे० उप० पृ. 99 / "क्षणिक कान्तपक्षेऽपि प्रेत्यभावाद्यसंभवः / प्रत्यभिज्ञाद्यभावान कार्यारम्भः कुतः फलम् // 41 // " आप्तमी / २-न्य प्र-भां० / ३-भिज्ञानं त-आ०, ब०, ज० / ४-स्पररूपा-भां० / ५-र रूप-ज०, भा० / 6 “तत्र आत्मा नाम योऽपरायत्तस्वरूपः स्वभावः, तदभावो नैरात्म्यम् / तच धर्मपुद्गलभेदाद्वैत प्रतिपद्यते-धर्मनैरात्म्यम्, पुद्गलनैरात्म्यञ्चेति / " चतुःश. पृ. 151 / 7 उभयप्रतिसन्धानात्मनो ज्ञानस्यैव /