________________ लघी० 1 / 2] सन्तानवादः तद्वत् विनष्टव्यं ततोऽभिन्नत्वात् तत्स्वरूपवत्, सन्तानिवद्वा सन्तानस्य भेदप्रसङ्गश्च तत एव तद्वत् / भेदे नित्यः, अनित्यो वा स्यात् ? नित्यत्वे स एव नाममात्रभेदः, सत्त्वादेर्नश्वरत्वे साया (ध्ये)ऽनैकान्तिकत्वञ्च / अनित्यत्वे तु सन्तानिवद् भेदात् कथं कर्मादिप्रतिनियमनिबन्धनत्वम् ? कथं वा रूपादिस्कन्धपञ्चकव्यवस्था सन्तानलक्षणस्य षष्ठस्कन्धस्य प्रसङ्गात् ? किञ्च, अस्य तद्विकल्पैरवक्तव्य॑त्वमसत्त्वात्, वक्तुरशक्तेः, अज्ञानाद्वा ? तत्राद्यवि- 5 कल्पोऽयुक्तः ; सन्तानस्याऽसत्त्वे कर्मादिव्यवस्थाहेतुत्वाभावप्रतिपादनात् / अस्तु वाऽसत्त्वम; तथापि असद्रूपस्य सद्रूपाद् भेदोपपत्तेः भेदेन वक्तुं शक्तेश्च कथमसौ तद्रूपोऽप्यवक्तव्यः स्यात् ? असद्रूपोह्यर्थः सद्रूपतया वक्तुमशक्यो न पुनरसद्रूपतयापि / द्वितीयविकल्पोऽप्यसाम्प्रतः ; सुगतस्याऽचिन्त्यशक्तिसद्भावाभ्युपगमात् / तृतीयविकल्पोऽप्यनुपपन्नः ; तस्याऽसर्वज्ञत्वप्रसङ्गात् / यच्चोक्तम्-'संवृति: सन्तानः' इति ; तदतीवाऽसङ्गतम् ; "संवृतेर्मृषारूपतया दृष्टाऽदृष्ट- 10 प्रयोजनप्रसाधकत्वानुपपत्तेः / किञ्च, "संवृतिः कल्पनोच्यते; सा च असति मुख्ये न प्रवर्तते / _ " अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्राध्यारोपः कल्पना" [ ] इत्यभिधानात् / न च मुख्यरूपतयान्वितं रूपं भवतों क्वापि प्रसिद्धं यत् पूर्वोत्तरक्षणेषु कार्यकारणभावप्रबन्धेन प्रवर्त्तमानेषु कल्येत / अतः संवृतिरूपसन्तानाऽन्यथाऽनुपपत्त्याप्येकप्रमातृसद्भावोऽवसीयते / त्वकल्पने ह्यसदेव तत् // 637 // " वृहदा० वार्ति० पृ. 1489 / “अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् / न तस्य भिन्नाऽभिन्नत्वविकल्पाऽनुपपत्तितः // अभेदपक्षे क्षणवत् व्यवहारो न सिद्धयति / व्यतिरेके तु चिन्त्योऽसौ वास्तवोऽवास्तवोऽपि वा // अवास्तवत्वे पूर्वोक्तं कार्यं विघटते पुनः / वास्तवत्वे स्थिरो वा स्यात् क्षणिको वेति चिन्त्यताम् // सन्तानिनिर्विशेषः स्यात् सन्तानः क्षणभङ्गुरः / न सिद्धयेत् पुनरप्येष व्यवहारः पुरोदितः // अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम्। उत्तिष्ठ भिक्षो फलिता तवाशा सोऽयं समाप्तःक्षणभङ्गवादः // " न्याय मं० पृ. 464 / 1 सन्तानिक्षणवत् / २-वत्तावद्धा सन्ता-भां० / 3 ततोऽभिन्नत्वादेव / ४-ध्य अनै-भां० / 5 कर्मफलसम्बन्धादि / ६रूपस्कन्ध-ब० / रूपवेदनासंज्ञासंस्कारविज्ञानरूपाः पञ्च स्कन्धाः / ७भेदाऽ भेदादिविकल्पैः / ८-वसमत्वात-आ०, ब०, ज० / “अशक्यत्वादवाच्यं किमभावात् किमबोधतः // 50 // " आप्तमी० / ९-स्यास-आ०, ब०, ज० / 10 असद्रूपोऽपि / 11 ङ्गतिःसं-आ०, ब०, ज० / 12 संवृतेस्तृषा-आ०,ब०, ज० / तु०-“अन्येष्वनन्यशब्दाऽयं संवृतिर्न मृषा कथम् / मुख्यार्थः संवृतिर्न स्याद्विना मुख्यान्न संवृतिः // 44 // " आप्तमी० / “न संवृतिः साऽपि मृषास्वभावा...'मुख्याहते गौणविधिर्न दृष्टा, यक्तनु० पृ. 41 / “सत्यं चेत् संवृतिः केयं मृषा चेत् सत्यता कथम् // 6 // " मी० श्लो० पृ. 218 / 13 तुलना-" अपि च संवृतिः कल्पना उच्यते, सा च असति मुख्ये न संभवति" स्या. रत्ना० पृ. 1090 / “संवियते आवियते यथाभूतपरिज्ञानं स्वभावावरणाद् आवृतप्रकाशनाच्च ? अनया इति संवृतिः / अविद्या मोह। विपर्यास इति पर्यायाः / " बोधिचर्या० पं० पृ० 352 / 14 उद्धृतश्चैतत् म्या० रत्ना० पृ० 1090 / 15 भवतः भां० / पृ. 7 पं० 5 /