________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्र [1 प्रत्यक्षपरि० Mऽहेतुत्वात्। अथ खत एव; तन्न; अतीताऽनागतक्षणयोरसत्त्वेन अभेदपरामर्शहेतुत्वानुपपत्तेः। यदसत् न तदभेदपरामर्शहेतु: यथा वन्ध्यास्तनन्धयः, असन्तौ च अतीताऽनागतौ ज्ञानक्षणाविति। वर्तमानज्ञानक्षणस्यापि अतीताऽनागतज्ञानक्षणाभ्यां सह नाऽभेदपरामर्शहेतुत्वं तत्कालेऽसत्त्वात्। यद्यत्काले असत् न तस्य तेन सह एकसन्तानहेतुरभेदपरामर्शः यथा रावण-शङ्खचक्रवर्त्यादिना, 5 अतीतानागतक्षणकाले असंश्च वर्तमानक्षण इति / ततः प्रतिक्षणविशरारुक्षणानामुक्तप्रकारेण कार्यकारणभावस्य अभेदपरामर्शस्य चानुपपत्तेः कथं यथोक्तलक्षणः सन्तानो व्यवतिष्ठेत ? अस्तु वा; तथाप्य॑सौ सैन् स्यात्, असन् वा ? यदि सन् ; तदाऽसौ अनित्यः, नित्यो वा ? प्रथमपक्षे सन्तानिभ्योऽस्याऽविशेषात् कथं कर्मफलसम्बन्धव्यवस्थाहेतुत्वं यतः कृत नाशाकृताभ्यागमदोषोपनिपातो न स्यात् ? द्वितीयपंक्षे तु नाम्नि विवादो नार्थे, आत्मन एव 10 'सन्तानः' इति नामान्तरकरणात् / अथ अर्सन ; कथं तद्वथैवस्थाहेतुः ? यदसत् न तत् कस्य चिद् व्यवस्थाहेतुः यथा खरविषाणम् , असंश्च भवन्मते सन्तान इति / ___ यदप्युक्तम्" - 'भेदाभेदादिविकल्पैरवक्तव्य एव सन्तानोऽवस्तुत्वात्' इत्यादि; तदप्ययुक्तम् ; अवस्तुनो वस्तुव्यवस्थाहेतुत्वाऽसंभवात् / तथाहि-सन्तानः कर्मफलसम्बन्धादिव्यव स्थाहेतुर्न भवति अवस्तुत्वात आकाशकुशेशयवत् / तद्व्यवस्थाहेतुत्वे वा अवस्तुत्वविरोधः। यद् 15 वस्तुव्यवस्थाहेतुः न तदवस्तु यथा प्रत्यक्षादि, कर्मादिवस्तुव्यवस्थाहेतुश्च भवद्भिः परिकल्पितः सन्तान इति / वस्तुत्वे चास्य सन्तानिभ्यो भेदः, अभेदो वा स्यात् ? अभेदे प्रतिक्षणं तेनापि १-माहे-आ०, ब०, ज० / 2 “यथा रावणशङ्खचक्रवर्तिभ्यां सह इति" स्या० रत्ना० पृ० 1088 / ३-मर्शानु-भां० / 4 सन्तानः / 5 सत् स्यादसद् वा आ०, ब०, ज० / 6 तुलना-“अथ द्रव्यसत्त्वमस्यावसीयते; संज्ञाभेदमात्रम् ‘आत्मा सन्तानः' इति नार्थविप्रतिपत्तिः" राज वा. पृ० 85 / “सन्तानस्याप्यवस्तुत्वात् अन्यथात्मा तथोच्यताम् // 83 // " तत्त्वा० श्लो० पृ. 23 / 7 नास्ति वि-आ०, ब०, ज०। 8 असत् आ०, ब०, ज०। 9 कर्मफलसम्बन्धव्यवस्था। 10 पृ० 750 5 / 11 तुलना-"अवस्तुनो वस्तुव्यवस्थाहेतुत्वानुपपत्तेः।” स्या० रत्ना० पृ० 1089 / १२-धादि हे-भां० / १३-हेतुः वा-आ०, ब०, ज० / 14 परिकल्प्यते भां०, ज० / 15 सन्तानस्य भिन्नाभिन्ननित्यानित्यादिविकल्पैः प्रत्यवस्थितिः इतरग्रन्थेष्वपि दृश्यते / तथाहि-"व्यतिरिक्तो हि सन्तानो यदि नाभ्युपगम्यते। सन्तानिनामनित्यत्वात् कर्ता कश्चिन्न लभ्यते // 37 // सन्तानानन्यतायां तु वाचोयुक्त्यन्तरेण ते / तत्र चोक्तं नचाऽवस्तु सन्तानः कर्तृतां व्रजेत् // 39 // सन्तानक्षणिकत्वे च तदेवाऽक्षणिकस्त्वथ / सिद्धान्तहानिरेवञ्च सोऽपि द्रव्यान्तरं भवेत् // 40 // एका चाऽव्यतिरिक्ता च सन्तानिभ्योऽथ सन्ततिः / भेदाऽभेदौ प्रसक्तव्यौ ग्राह्यग्राहकयोर्यथा // 41 // " मीमांसा श्लो० पृ० 697 / “सन्तानिभ्यश्च सन्तानोऽभिन्नो भिन्नोऽथवा द्विधा // 633 // अभेदे ऽनित्यतासक्तिः स्थास्नु दे प्रसज्यते। कार्यकारणभावश्च न च वः स्यादभीप्सितः // 634 // भिन्नाभिन्नत्वपक्षोऽपि विरोधान्न च युज्यते। स्वसिद्धान्तस्य च भ्वस्तिन च संगच्छते जनिः // 635 // सन्तानिनां स्वसन्तानाद्भिन्नाऽभिन्नत्वकल्पने। वाच्या दोषा यथायोगं सन्तानार्थीनुरोधतः // 636 // अवाच्यमितिपक्षश्चेन्मैवं तस्याप्यसंभवात् / अन्याऽनन्योभयात्म