________________ लघी० 1 / 2] सम्तानवादः नुपलम्भौ इति / तेनैकप्रमात्रनभ्युपगमे कार्यकारणभावः तत्प्रतिपत्तिर्वा घटते, तत्कथं तेषों तद्भावप्रबन्धेर्ने प्रवृत्तिः स्यात् ? किञ्च, क्षणिकत्वे सिद्ध तेषां कार्यकारणभावप्रबन्धेन प्रवृत्तिर्युक्ता, न तु तसिद्ध तत्प्रसाधकप्रमाणाऽभावात् , तदभावश्च अक्षणिकत्वसिद्धौ प्रसाधयिष्यते / किञ्च, अर्थानां क्षणिकत्वमिच्छतापि प्रमातुरेकत्वमवश्यमभ्युपगन्तव्यम् , तदभावे पूर्वोत्तरक्षणविवेकलक्षणक्षणिकत्वस्य 5 प्रतिपत्त्यनुपपत्तेः। पूर्वाकारदर्शनं ह्यन्यस्य ज्ञानस्य संवृत्तम् उत्तराकारदर्शनं चान्यस्य , अतश्चोत्तरज्ञानं स्वविषयपरिच्छेदमात्रोपक्षीणशक्तिकं न 'पूर्वज्ञानगृहीतविषयाकारात् विलक्षणोऽ यम्' इति परामृष्टुं क्षमं सर्वथा तद्विषयवार्तानभिज्ञत्वात् / यत् सर्वथा यद्विषयवार्तानभिज्ञ न तत् तद्विषयोत् स्वविषयस्य वैलक्षण्यपरामर्श समर्थम् यथा "चैत्रज्ञानं मित्रज्ञानविषयात् , सर्वथा पूर्वज्ञानविषयानभिज्ञञ्च उत्तरज्ञानमिति / न खलु चैत्रेण अन्याकारेऽर्थे दृष्टे तदनन्तरं 10 मित्रस्य अन्याकारार्थदर्शने सति 'विलक्षणोऽयम्' इति प्रत्यवमर्शो दृष्टः / ___यच्चान्यदुक्तम्-'पूर्वोत्तरक्षणाः प्रतिक्षणविशरारवः' इत्यादि; तदप्यसुन्दरम्; पूर्वोत्तरक्षणयोः वर्तमानक्षणकालेऽसत्त्वेन अस्यै 'ताभ्यामसम्बद्धस्य 'सन्तानत्वानुपपत्तेः, सतामेव हि अन्योन्यसम्बन्धा(द्धा)नां लोके सन्ततिः प्रसिद्धा पक्षिवत्।अथ वर्तमानक्षणोऽतीतानागतक्षणापेक्षः सन्तानः स्यात्। नन्वनयोः" विनष्टानुत्पन्नत्वेन व्योमोत्पलप्रख्ययोः कापेक्षा नाम ? अन्यथा 15 शशशृङ्ग-वन्ध्यास्तनन्धयापेक्षयापि वर्तमानक्षणस्य एकसन्तानता स्यात् / 'अत्रैवार्थे प्रयोगद्वयम् -बौद्धाभिमतो वर्तमानज्ञानक्षणः “तदुत्पाद्योत्पादकाभिमतज्ञानक्षणान्तरेण एकसन्ता". निको न भवति, सत्त्वात् , अनभिमतज्ञानक्षणवत्। तथा, विवादापन्नानामतीताऽनागतवर्तमानज्ञानक्षणानां नैकः सन्तानः सदसद्रूपत्वात् , वन्ध्या-तत्पुत्रक्षणवत्। __ यदप्युक्तम्-'अपरामृष्टभेदाः' इति; तदप्ययुक्तम् ; यतोऽभेदपरामर्शस्तेषां ज्ञानान्तरात्, 20 स्वतो वा ? यदि ज्ञानान्तरात्; किमस्मदादिसम्बन्धिनः, योगिसम्बन्धिनो वा ? तत्राद्यपक्षोऽनुपपन्नः; अस्मदादेरतीतादिक्षणगोचरस्य ज्ञानस्याऽसंभवात् स्वहेतुक्षणमात्रविषयतया तस्य सौगतैरभ्युपगमात् / द्वितीयपक्षोप्यसम्भाव्यः; योगिज्ञानस्य विधूतकल्पनाजालतयाऽभेदपराम १-भिन्नैक प्र-आ०, ब०, ज० / 2 पूर्वोत्तरक्षणानाम् / 3 कार्यकारणभावप्रबन्धेन / ४-प्रबन्धनेन ब० / 5 न च तत्-भां० / 6 क्षणिकत्वप्रसाधक / ७-श्याभ्यु-आ०, ब०, ज०। ८-कंपआ०, ब०, ज० / ९-षयः स्व-आ०, व०, ज० / १०मित्रज्ञानं चैत्रज्ञान-भां० / 11 पृ.पं. 14 / 12 वर्तमानक्षणस्य / 13 पूर्वोत्तरक्षणाभ्याम् / 14 संज्ञान-आ०, ब० ज० / 15 अतीतानागतक्षणयोः / 16 तत्रै-आ०, ब०, ज० / 17 एतत्प्रयोगद्वयं स्याद्वादरत्नाकरस्य 1087 पृष्ठेऽपि / 18 उत्पाद्य उत्तरक्षणः, उत्पादकः पूर्वक्षणः / १९-सन्तानकः-भां० / 20 पृ. 6 पं० 14 / 21 तुलना-“यस्मादभेदपरामर्शः प्राचीनोत्तरक्षणानाम् ज्ञानान्तरात् , स्वतो वा ? यदि ज्ञानान्तरात् ; किमस्मदादिसम्बन्धिनो योगिसम्बन्धिनो वा ?" स्या. रत्ना० पृ० 1088 / 22 तेषां ज्ञानान मस्म-आ०, ब०, ज० / २३-मर्शहे-आ०, ब०, ज० /