________________ लघीयत्रयालंकार न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० तराकारोपादानस्य च उपादानेलक्षणस्य संभवात् / अतः पूर्वोत्तरचित्तविशेषाणां कार्यकारणभावमिच्छता एकप्रमातृसमन्वयोऽभ्युपगन्तव्यः / ___ कार्यकारणभाववत् तदधिगमोप्येकप्रमातृव्यतिरेकेण अनुपपन्नः / प्रत्यक्षानुपलम्भपञ्च कसाधनो हि कार्यकारणभावो बौद्धैरिष्टः, प्रथमं हि कार्यकारणयोरनुपलम्भः शुद्धभूतलोप५ लम्भलक्षणः, तदुत्तरकालं वह्नः उपलम्भ: तदनन्तरञ्च धूमस्य, तदुत्तरकालं वरनुप लम्भे धूमस्याप्यनुपलम्भः, तदित्थमनुपलम्भत्रयेण उपलम्भद्वयेन च वह्निधूमयोः तद्भावों गृह्यते / उपलम्भत्रयेण अनुपलम्भद्वयेन वा, प्रथमतो हि वह्निधूमयोरुपलम्भः, तदुत्तरकालं घरनुपलम्भः तदनन्तरञ्च धूमस्य, पुनर्वह्ररुपलम्भे धूमस्याप्युपलम्भ इति, तान्येतानि प्रत्यक्षानुपलम्भपञ्चकेन पञ्चवस्तूनि एकसंवित्परामर्शविषयताम् एकप्रमात्रैवानीयन्ते / तावत्कालव्याप्यशेषसंवेदनानवच्छिन्नान्वयिस्वसंवेदनावभास एव च एकप्रमात्रवभासः। न हि क्रमेण प्रतिक्षणमुत्पद्यापगच्छतां परस्परविषयवार्तानभिज्ञानानाम् ( भिज्ञानाम ) एवंविधपरामर्शात्मको व्यापारो घटते / विकल्पस्यापि निर्विकल्पकविषय एव व्यापारादसौ” न युक्तः; य एव हि नीलाद्यर्थो निर्विकल्पकेन गृहीतः तत्रैव तदनुसारी विकल्पः प्रवर्तते नाधिकविषये, अगृहीत. प्राहित्वेन प्रमाणान्तरत्वप्रसङ्गात् / 15 अस्तु वा अस्य तद्वयोपारः; तथाप्यसौ क्षणिकः, अक्षणिको वा ? अक्षणिकत्वे नाममात्रभेदः स्यात् 'आत्मा विकल्पः' इति च / क्षणिकत्वेऽपि निर्विकल्पान्न विशेषः, तथाचैकस्य कार्यकारणताप्रतिपत्तिर्न स्यात् प्रतिक्षणं भेदात् , यस्य हि कारणप्रत्यक्षता न तस्य कार्यप्रत्यक्षता। अस्तु वैकस्य उभयप्रत्यक्षता ; तथापि 'यस्य कारणप्रत्यक्षतायां कार्यप्रत्यक्षता सोऽन्यः, यस्य च कारणानुपलम्भे कार्यानुपलम्भः सोऽन्यः' इति विभिन्नप्रमातृप्रत्यक्षानुपलम्भवत् एकप्रमातृ२० प्रत्यक्षानुपलम्भयोरप्यत्यन्तभेदात् कथं ततस्तदवगमः स्यात् ? तथाहि-यौ परस्परतोऽत्यन्त विभिन्नौ प्रत्यक्षानुपर्लंम्भौ न तौ कस्यचित् कार्यकारणभावमवगच्छतः यथा देवदत्त-यज्ञदत्तप्रत्यक्षानुपलम्भौ, परस्परतोऽत्यन्तविभिन्नौ" च भवद्भिरभ्युपगम्येते कार्यकारणक्षणयोः प्रत्यक्षा १-नस्य ल-भां० / २-दभि ग-आ०, ब०, ज० / 3 " तदुत्पत्तिविनिश्चयोऽपि कार्यहेतुः पञ्च प्रत्यक्षोपलम्भाऽनुपलम्भसाधनः-कार्यस्य उत्पत्तेः प्रागनुपलम्भः, कारणोपलम्भे सत्युपलम्भः, उपलब्धस्य पश्चात् कारणाऽनुपलम्भादनुपलम्भः इति कार्यस्य द्वौ अनुपलम्भौ एकः उपलम्भः कारणस्य च उपलम्भाऽनुपलम्भौ इति / एवम् उपलम्भाऽनुपलम्भैः पञ्चभिः सत्येव अग्नौ धूमस्य भावः असति अभावो निश्चीयते / " प्रश० कन्दली पृ. 206 / सर्वद० सं० पृ. 17 / ४-ञ्च सा-भां० / ५-स्याप्युप-आ०, ब०, ज० / ६-ह: धू-आ०, ब०, ज० / 7 कार्यकारणभावः / 8 तत्कालभां० / ९-मात्राव-२० / 10 एवंविधपरामर्शात्मको व्यापारः / 11 विकल्पस्य / 12 परामर्शात्मको " व्यापारः / तदव्या-आ०, ब०, ज० / 13 प्रत्यक्षानुपलम्भतः / १४-लम्भौ क-आ०, ब०, जः / १५-नौ भ-ज० / 16 सौगतैः / 17 कारणयोः प्र-भां० /