________________ लघी० 1 / 2] . सन्तानवादः यत्स्वरूपमात्रे व्यावर्तमाने यस्य व्यावृत्तिः स तस्मिन् संति भवति असति च न भवति इत्यन्वयव्यतिरेकैतः तत्कार्यम्; तन्न; क्षणक्षयकान्ते अन्वयव्यतिरेकाऽसिद्धः, कारणाभावे एव कार्यस्य सदा संभवात् / स्वकाले सति समर्थे कारणे अनन्तरं कार्यमुत्पद्यते नासति इत्यन्वयव्यतिरेकसंभवः अॅकिञ्चित्करेप्यविशिष्टः, यथैव हि कार्य विवक्षितक्षणेन समनन्तरभाविना विना नाविर्भवति एवं पूर्वोत्तरसमानसमयैर्नानाविधैः क्षणान्तरैरपि। नियतका- 5 ले हि भवता भावेन अवश्यं कुतश्चित् पूर्वकालभाविना कुतश्चिदुत्तरकालभाविना केनचित्समानसमयभाविना भवितव्यम् / न च ते पूर्वोत्तरसमानसमयवर्तिनः सन्तानान्तरक्षणाः तस्य कारणम् अकिञ्चित्करत्वात्, एवं विवक्षितोपि क्षणोऽकिञ्चित्करत्वात् पूर्वकालवय॑पि न तस्य कारणं स्यात् / / किञ्च, उपादान-सहकारिभावेन कारणं कार्यमाविर्भावयते, न च क्षणिकैकान्ते तद्भावो 10 घटते / तत्र हि उपादानत्वं पूर्वकालभावित्वम् , स्वसदृशसमानदेशकार्यारम्भकत्वं वा ? प्रथमपक्षोऽयुक्तः ; सन्तानान्तरक्षणैः व्यभिचारात् / द्वितीयपक्षोऽप्यनुपपन्नः; सौगतैः देश-सादृश्ययोरनभ्युपगमात् , अभ्युपगमै वा अत्यन्तविलक्षणक्षणिकवादविरोधः। नीलादिज्ञानस्य पीतादिज्ञानं प्रति अयोगिचित्तस्य योगिचित्तं प्रति उपादानत्वाभावः स्यात् अत्यन्तवैसादृश्यात् / तदेवं क्षणिकैकान्ते" उपादानकारणस्याऽव्यवस्थितेः सहकारिकारणस्याप्य 15 (प्यव्य )वस्थितिः स्यात् 'तन्मूलत्वात्तस्याः / अतः कथञ्चिदन्वयिन्येवाऽर्थे कार्यकारणभावः उपादानत्वञ्चोपपन्नम् , तत्रैव अन्वयव्यतिरेकयोः तन्निबन्धनयोः पूर्वाकारपरित्यागाऽजहद्वृत्तो" सति भवति इत्य-आ०, ब०, ज० / २-रेकस्तत्-भां० / 3 तुलना-"तदन्वयव्यतिरेकानुविधानादुत्तरं तत्कार्यम् इति चेन्न; तस्य असिद्धेः।” अष्टसह० पृ० 182 / 4 नित्येऽपि। ५-भाविनाविर्भ-भां० / 6 हि भवन्तावेतावश्यं आ०, ब०, ज० / 7 उपादान-सहकारिभावः / ८-क्षणिकक्षणवाद-ज०, भां० / ९-स्य च पी-आ०, ब०, ज० / तुलना-“तद्भावेऽपि न ज्ञायते किं कस्य तत्र उपादानम् इति ? रूपज्ञानं रूपज्ञानस्य एवमन्यत्रापि योज्यम् इतिचेत् ; आद्य' सौगतं ज्ञानम् अनुपादानं प्रसक्तं पूर्व तथाविधस्य तदुपादानस्य अभावात् , अन्यथा कुतः सोपायं सुगतत्वम् / " सिद्धि वि. टी. पृ० 197 पू० / 10 तुलना-"कथञ्च निरन्वयविनाशे कारणस्य उपादानसहकारित्वस्य व्यवस्था " प्रमेयक पृ० 147 पू०। 11 तुलना-“तदा प्रवृत्तिविज्ञानानाम् उपादानताविरहे निमित्तत्ताऽपि न स्यात उपादानताव्याप्तत्वान्निमित्ततायाः।" वैशे० उप० पृ० 145 / 12 उपादानव्यवस्थितिमूलत्वात् सहकारिव्यवस्थितेः / 13 तुलना-“ एकद्रव्यस्वभावत्वात् कथञ्चित्पूर्वपर्ययः। उपादानम् उपादेयश्चोत्तरो नियमात्ततः // 182 // " तत्त्वार्थ श्लो० पृ० 38 / " तदुक्तम्-त्यक्ताऽत्यक्तात्मरूपं यत् पूर्वाऽपूर्वेण वर्तते / कालत्रयेऽपि तव्यमुपादानमिति स्मृतम् // यत् स्वरूपं त्यजत्येव यन्न त्यजति सर्वथा / तन्नोपादानमर्थस्य क्षणिकं शाश्वतं यथा // " अष्ट सह० पृ० 210 / “पूर्वाकारपरित्यागाऽजहद्वत्तोत्तराकारान्वयप्रत्ययविषयस्य उपादानत्वप्रतीतेः / " अष्ट सह. पृ० 65 / १४-त्तोत्तरोपा-आ०, ब०, ज०।