________________ लघीयस्खयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० अस्तु वा अविचारितरमणीयस्वभावं भवन्मते किञ्चित् कार्यत्वं कारणत्वञ्च; तथापि विनष्टीत्कारणात् कार्यमुत्पद्येत, अविनष्टात् , विनश्यदवस्थाद्वा ? न तावद्विनष्टात् ; स्वरूपेणासतः सकलशक्तिविकलस्य तत्प्रति कारणत्वानुपपत्तेः / यत् स्वरूपेणासत् न ततः किञ्चित् प्रभवति यथा वन्ध्यास्तनन्धयात् पुत्रः, स्वरूपेणासच्च परमते कारणमिति / 'विनष्टम् कार्य करोति' , इति किमपि महाद्भुतम् ! न हि मृताच्छिखिनः केकायितसम्भवः। कथं वाऽतो जायमानं कार्य सहेतुकं स्यात् ? अथाविनष्टात्ततः तदुत्पद्यते; तर्हि दत्तो जलाञ्जलिः क्षणक्षयाय भावानामनेकक्षणस्थायित्वप्रसिद्धः, ते हि प्रथममुत्पद्य कार्यकरणाय व्याप्रियन्ते तदनन्तरं कार्यमाविर्भावयन्तीति / अथोत्पत्तिसमय एवैते कार्यमाविर्भावयन्ति; तन्नः सकलसन्तानोच्छेदप्रसक्तेः तदुत्पाद्यकार्यस्यापि तदैव स्वकार्योत्पादकत्वप्रसङ्गात् / 10 अथ विनश्यदवस्थात् कारणात् कार्यमुत्पद्यते; न; एकान्तवादिनो विनश्यदवस्थाया एवा नुपपत्तेः / एकदैकस्य हि वस्तुनः केनचिद्रूपेण विनाशः केनचिच्चावस्थानं विनश्यदवस्थोच्यते, सा च अनेकान्तस्वभावत्वाद् एकान्ते कथं घंटेत ? किञ्च, असौ विनश्यवस्था सती, असती वा ? यदि सती; तदा तयापि क्षणिर्कस्वभावया भवितव्यम् इति कोऽस्योस्ततो विशेषः ? अथ असती; कथं तया क्रोडीकृतस्य जनकत्वम् ? यदसद्रूपेण क्रोडीकृतं न तत् कस्यचिज्जनकम्, 15 यथा गगनाम्भोजम् , असदूपयो विनश्यदवस्थया क्रोडीकृतं च भवन्मते कारणत्वेनाभिमतं वस्त्विति / - किञ्च, अयं कार्यकारणभावसम्बन्धः काल्पनिकः, वास्तवो वा ? काल्पनिकत्वे कर्मफलसम्बन्धोऽपि तादृश एव स्यात, लौकायतिकत्वप्रसङ्गश्च पूर्वभवान्त्यचित्तक्षणस्य ऐहिकाद्यचित्त क्षणेन सह वास्तवसम्बन्धाभावात् / अथ वास्तवः; तन्न; एकान्तभिन्नानां क्षणिकार्थानां 20 वास्तवतत्सम्बन्धानुपपत्तेः / अथ 'कार्यस्य भवनं कारणस्य भवनम्' इत्येतावानेव अत्र कार्यकारणभावः; ननु यत् कार्यस्य भवनं तत् कार्यनिष्ठमेव, यच्च कारणस्य भवनं तत् तन्निष्टमेव इति 'नानयोः कश्चित् सम्बन्धः, अन्यथा 'घटस्य भवनं पटस्य भवनम्' इत्ययमपि कार्यकारणभावः स्यात्, ततश्च नियतकार्यार्थिना यत्किञ्चित् कारणमुपादीयेते / अथ 1 कार्य का-आ०, ब०, ज० / 2 तुलना-"किञ्चान्यत् नष्टाद्वा पूर्वक्षणादुत्तरस्य क्षणस्य उदयः स्यात् , अनष्टात् , नश्यमानाद्वा इत्यादि / " माध्यमिक वृ० पृ. 282 / तत्त्व सं० श्लो० 488-489 / "न विनष्टं कारणमसत्त्वाचिरतरातीतवत्"...अष्टश० अष्टसह पृ० 182 / “क्षणिकं वस्तु विनष्टं सत् कार्यमुत्पादयति, अविनष्टम् , उभयरूपम् , अनुभयरूपं वा ?" प्रमेयक० पृ० 147 पू० / सन्मति० टी० पृ. 318 / स्या० रत्ना० पृ० 777 / 3 कार्य प्रति / ४-णतानु-भां० / 5 असद्रूपात् / 6 तुलना"सत्येव कारणे यदि कार्य त्रैलोक्यमेकक्षणवर्ति स्यात्, कारणक्षणकाले एव सर्वस्य उत्तरोत्तरक्षणसन्तानस्य भावात् ततः सन्तानाऽभावात् / " अष्टसह. पृ० 187 / 7 घटते भां० / 8 क्षणिकत्व स्वभां० / 9 अवस्थायाः / 10 अवस्थावतः / 11 असदूपतया ब० / 12 कार्यकारणभाव / 13 कार्यकारणयोः / १४-दीयते ब०, भां० /