________________ लघी० 112] . सन्तानवादः ., अत्र प्रतिविधीयते। यत्तावदुक्तम्-'कार्यकारणभाव' इत्यादि; तदसमीक्षिताभिधानम् ; क्षणि कैकान्ते कार्यकारणभावस्यैवासंभवात् / तत्र हि किं कार्यम् , किञ्च सन्तानवादे जैनानामुत्तरपक्षः कारणम् ? यदभूत्त्वा भवति तत्कार्यमिति चेत् ; नन्वभवने भवने च कस्य कर्तृत्वम् तस्यैव, अन्यस्य वा ? न तावत्तस्यैव, सर्वथायसतः कर्तृत्वधर्माधारत्वानुपपत्तेः / यत् सर्वथाप्यसत् न तत् कर्तृत्वधर्माधारः, यथा वन्ध्यास्त- 5 नन्धयः, सर्वथाप्यसैच्च परमते कार्यमिति / भवनं हि स्वरूपस्वीकरणम् , तच्च सर्वथाप्यसतो वन्ध्यास्तनन्धयस्येवाऽतिदुर्घटम् / नाप्यन्यस्य; अस्यैव कार्यत्वप्रसङ्गात् , यदेव ह्यभवने भवने व कर्तृ तदेव कार्यम् , तस्यापि सर्वथाप्यसत्त्वे न कार्यत्वम् उक्तानुमानविरोधात् / .. कारणत्वमपि कार्यमात्रोत्पादकत्वम् , नियतकार्योत्पादकत्वं वा ? प्रथमपक्षे सर्व सर्वस्य कारणं स्यात् , ततः कार्यार्थी न कश्चिन्नियतोपादानं कुर्यात् / द्वितीयपक्षोप्यनुपपन्नः; खंपु- 17 पप्रख्येण कार्येण कारणस्वरूपस्य विशेषयितुमशक्यत्वात्। यद् वास्तवं रूपं तद्विद्यमानेनैव विशेषणेन विशेष्यते यथा स्वसंवेदनं स्वसंविद्रूपतया, वास्तवं च कारणत्वं (णस्त्र) रूपमिति / असता कार्येण 'इदमस्य जनकम्' इति कारणस्य विशेष्यत्वे चाऽसत्त्वप्रसङ्गः। यत् सर्वथाप्यसता विशेष्यते तदसत् यथा 'असन् घटः' इत्यभावेन विशेष्यमाणो घटः, असता सर्वथा कार्येण विशेष्यते च परमते कारणमिति / विकल्याधिरूदेन कार्येण कारणस्य विशेष्यत्व- 15 मित्यप्येतेन प्रत्याख्यातम् ; न खलु विकल्पाधिरूढं कार्यमसद्रूपतां परित्यजति / विकल्पाधिरूढ़ेन विशेष्यत्वे च न वास्तवरूपं कारणत्वं सिद्धयेत् / यत् विकल्पाधिरूढ़विशेषणसापेक्षं रूपं न तद्वास्तवम् यथा माणवकेऽग्नित्वम् , विकल्पाधिरूढ़कार्यलक्षणविशेषणसापेक्ष कारणे कारणत्वं रूपमिति / सर्वथाऽसति च कार्ये व्याप्रियमाणानां कारणानां निरालम्बना प्रवृत्तिरिष्टा स्यात् , एवञ्च विवक्षितकार्योत्पत्तिवत् आकाशकुशेशयाद्युत्पत्तावपि तत्प्रवृत्तिप्रस- 20 ङ्गात् न किञ्चिदन्त्यन्तमसत् स्यात् / तत्र तेषामप्रवृत्तौ वा विवक्षितकार्येप्यप्रवृत्तिः सर्वथाऽ सत्त्वाऽविशेषात् / यत् सर्वथाप्यसत् न तत्र कारणानां प्रवृत्तिः यथा खपुष्पादौ, सर्वथाऽ सच्चे भवन्मते कार्यमिति / यदि च, किमप्यनालम्ब्य कारणानां प्रवृत्तिः स्यात्तदा विवक्षितकारणस्य विवक्षितकार्यवत् कार्यान्तरेऽपि प्रवृत्तिप्रसङ्गात् कारणान्तरकल्पनानर्थक्यं स्यात् / 1 पृ० 6 पं० 14 / 2 “यस्य प्रयत्नानन्तरमात्मलाभः तत्खलु अभूत्वा भवति यथा घटादि कार्यम्।" न्याय भा० पृ.४४२। “कायत्वम् अभूत्त्वाभावित्वम् प्रशस्त करणा- पृ. 29 / क्षण. सि. पृ०३० "अभूत्त्वाभावरूपत्वाजन्मनो नान्यथा स्थितिः // 511 // " तत्त्व सं० / अभूत्वाभावित्वं स्थाद्वादरमाकरे ( पृ० 418 ) प्रमेयरत्नमालायाञ्च (पृ. 68 ) प्रसङ्गतः चर्चितम् / ३-सत्त्व आ०, 20, ज० / 4 बौद्धमते / 5 खपुष्पाख्येन ब०, ज० / ६-दनं संवि-ब० / 7 वासत्त्व-भा० / 8 परमते अवीरमतेका-आ०, ब०, ज० / 9 यद्धि भां० / १०-क्षत्वं-भा० / ११-मत्वरूप-भा० / 12 सत तन-आ०, ब०, ज० / १३-असत्त्व-आ०, ब०, ज.।