________________ लघोयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्ष परि० शिष्वपि प्रदीपज्वालादिषु सादृश्यात् ‘स एवायं प्रदीपः' इति प्रत्यभिज्ञानमाविर्भवति एवमत्रापि। नित्यैकरूपत्वे चात्मनः क्रमयोगपद्याभ्यामर्थक्रियाकारित्वानुपपत्तितोऽसत्त्वात् कथं प्रत्यभिज्ञानादिहेतुत्वम् ? यत्र क्रमयोगपद्याभ्यामर्थक्रियाकारित्वानुपपत्तिः तदसत् यथा वन्ध्यास्तनन्धयः, अस्ति च नित्यैकरूपतयाभिमते आत्मनि तथौ तदनुपपत्तिः / न चास्य क्रमयोगपद्याभ्यामर्थक्रियाकारित्वानुपपत्तिरसिद्धा; तथाहि-क्रमेणास्यार्थक्रियाकारित्वे किं येनैव स्वभावे. नैकं कार्य करोति तेनैवापरम् , स्वभावान्तरेण वा ? यदि तेनैव; तर्हि द्वितीयादिक्षणसाध्यकार्यस्य प्रथमक्षण एवोत्पादप्रसङ्गः, तदुवादकस्वरूपस्य प्रागपि भावात् / प्रयोगः- यदा यदु त्पादहेतुरस्ति तत्तदोत्पत्तिमत्प्रसिद्धम् यथा तत्कालाभिमतं कार्यम् , अस्ति च द्वितीयादिक्षण१० साध्य कार्यस्य प्रक्षमक्षण एवोत्पादको नित्यैकरूपतयाभिमतस्यात्मनः स्वभाव इति / अथ स्वभावान्तरेणासौ तस्करोति; तर्हि पूर्वस्वभावस्य प्रच्युतत्वात् सिद्धमरय क्षणिकत्त्वं स्वभावप्रच्युतिलक्षणत्वात्तस्य / योगपद्येनाप्यस्य कार्यकारित्वे युगपदेवाखिलकार्योत्पादकस्वभावतया प्रथमक्षण एवाखिल कार्योत्पादनात् क्षणान्तरे तदुत्पाद्यकार्याऽभावतोऽनर्थक्रियाकारित्वेन अश्व विषाणवदसत्त्वानुषङ्गः / 15 किञ्च, क्रमभाविसुखादिपर्यायव्यापकत्वमात्मनो भवताभ्युपगम्यते, तच्च किमेकेन स्वभा वेनास्येष्यते', अनेकेन वा ? योकेन ; तदा तेषामेकरूपतापत्तिः, यदेकस्वभावेन व्याप्यते तदेकरूपमेव यथैकपर्यायस्वरूपम् , एकस्वभावेन व्याप्यन्ते चौत्मना सुखादयोऽनेकपर्याया इति / अथानेकेन ; तदा सोप्यनकस्वभावोऽपरेणानेकस्वभावेन व्यापनीय इत्यनवस्था / अथै कादृशेन स्वभावेन तेन ते व्याप्यन्ते अत्रापि 'अनेकस्वभावेन सजातीयेन' इत्युक्तं स्यात् , तत्र 20 च सैवानवस्था / नचापरं प्रकारान्तरमस्ति, अतः कथं क्रमभुवां सुखादीनामन्वितं रूपं सिद्ध्येत येनात्मसिद्धिः स्यादिति ? 1 "क्रमयोगपद्याभ्याम् इत्यादि / नैव प्रत्यक्षतः कार्यविरहाद्वा शक्तिविरहोऽक्षणिकत्वे उच्यते, किन्तु तद्वथापकविरहात् ; तथाहि-क्रमयोगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराऽभावात् / ततः कार्यक्रियाशक्तिव्यापकयोः तयोः अक्षणिकत्वे विरोधात् निवृत्तेः तद्वधाप्तायाः क्रियाशक्तरपि निवृत्तिः इति सर्वशक्तिविरहलक्षणम् असत्त्वम् अक्षणिकत्वे व्यापकानुपलब्धिः आकर्षति विरुद्धयोरेकत्राऽयोगात् / ततो निवृत्तं सत्त्वं क्षणिकेष्वेव अवतिष्ठमानं तदात्मतामनुभवतीति-यत् सत् तत् क्षणिकमेव"............. / हेतु बि० टी० पृ० 142 उ० / “क्रमाक्रमविरोधेन नित्या नो कार्यकारिणः // 76 // क्रमेण युगपच्चापि यस्मादर्थक्रियाकृतः। न भवन्ति स्थिरा भावा निःसत्त्वास्ते ततो मताः" // 394 // तत्त्वसं० / 2 क्रमयोगपद्याभ्याम् / 3 अर्थक्रिया। 4 “किं येन स्वभावेनाद्यामर्थक्रियां करोति किं तेनैवातराणि कार्याणि समासादितस्वभावान्तरो वा करोति”। तत्त्वोप० पृ० 126 / 5 यथा यदुत्पादकमस्ति-भां० / 6 अर्थक्रियाकारित्वाभावेन / ७-ध्येत-ब०, ज० / जैनेन / 8 सुखादिपर्यायाणाम् / ९-त्मनः-आ०, घर, ज.। १०-तेनव्या-जः / स्वभावेन ते-आ०, ब.। आत्मना।