________________ लघी० 1 / 2] . सन्तानवादः नाश-अकृताभ्यागमदोषोपनिपातः; सन्तानापेक्षया तत्सम्बन्धसंभवात् / एकसन्ततिपतितानां हि चित्तक्षणानां प्रतिक्षणं क्षणिकत्वेऽपि कर्मफलसम्बन्धस्योपपत्तेन तद्दोषोपनिपातप्रसङ्गः। नापि सन्तानिभ्य सन्तानो भिन्नो ( भिन्नोऽभिन्नो) वेत्याद्यनल्पविकल्पापातः; तस्य वस्तुविषयत्वात् सन्तानस्य चाऽवस्तुत्वात् / व्यवहारार्थ हि विभिन्नेष्वपि क्षणेष्वभेदपरामर्शरूपा संवृतिः सन्तानः, सोऽवस्तुत्वाद्भेदाभेदविकल्पैः अवक्तव्य एव, यदवस्तु तद्भेदाभेदादिविकल्पैरवक्तव्य- 5 मेव यथा गगनेन्दीवरम् , अवस्तु च विभिन्नक्षणेष्वभेदकल्पनारूपतया सन्तान इति / नन्वेवमप्यन्योन्यविलक्षणचित्तक्षणेषु प्रत्यभिज्ञातुरेकस्यात्मनोऽनभ्युपगमात् प्रत्यभिज्ञानाद्यनुपपत्तिः; इत्यप्यसमीचीनम् ; "सादृश्यादेव तदुपपत्तेः प्रदीपवत् , यथैव हि प्रतिक्षणविना 1 " तच्च कुशलाकुशलं चित्तमुत्पाद्य निरुद्धयमानं स्वोपादेयचित्तक्षणे कुशलाकुशलादिसंस्कारविशेषवासनामादधाति / तदपि तदाहितवासनम् उत्तरोत्तरतदभिसंस्कृतक्षणपरम्पराविच्छेदनः सन्तानप्रवर्त्तमानं परिणतिविशेषमुपगच्छन् कर्मविशेषानुरूपं सुखादिस्वभावं चित्तात्मकमेव फलमभिनिर्वर्सयति परलोके...... इति नाऽकृताभ्यागमो न कृतप्रणाशो बाधकम् / ततो नात्मानमन्तरेण कर्मफलसम्बन्धो न युज्यते / बोधिचर्या० पं० पृ० 472 / “कृतनाशो भवेदेवं कार्य न जनयेद्यदि / हेतुरिष्टं न चैवं यत् प्रबन्धेनास्ति हेतुता // 538 // अकृताभ्यागमोऽपि स्यात् यदि येन बिना क्वचित् / जायेत हेतुना कार्यं नैतन्नियतशक्तितः // 539 // तत्त्व सं० / यदि हि परिमार्थतः कता भोक्ता वा अभीष्टः स्यात् तदा क्षणभङ्गित्वाङ्गीकारेण कृतनाशादिप्रसङ्गः स्यात् / यावता इदं प्रत्ययमात्रमेव विश्वम् , न केनचित् का किंचित् कृतं नापि भुज्यते तत्कथं कृतनाशादिप्रसङ्गापादनं स्यात्........'लाक्षादिरसावसिक्तानामिव बीजानां सन्तानमनुवर्तन्त एव पूर्वकर्माहिता सामर्थ्य विशेषा यत उत्तरकालं लब्धपरिपाकेभ्य इष्टमनिष्टं वा फलमुदेति"। तत्त्व सं पं० / -'बृहदा० वा० (पृ० 1501) न्यायमं० (पृ० 443)' इत्यादौ तु सन्तानवादस्य पूर्वपक्षे "यस्मिन्नेव तु सन्ताने आहिता कर्मवासना / फलं तत्रैव सन्ताने कापासे रक्तता यथा" इति श्लोकमुद्धृत्य अकृताभ्यागमकृतनाशदोषस्य परिहारः कृतः। 2 “भेदाभेदविकल्पस्य वस्त्वधिष्टानभावतः। तत्त्वान्यत्वाद्यनिर्देशो निःस्वभावेषु युज्यते" // 340 // तत्त्वसं० / 3 अनल्पविकल्पापातस्य ४-र्थाविब० / .हि आ०, ज० / ५-पुभे-आ०, ब०, ज० / 6 " तत्त्वान्यत्वप्रकाराभ्यामवाच्यमथ वर्ण्यते / सन्तानादीव कारित्रं स्यादेवं सांवृतं ननु // 1807 // तत्त्व सं० / यथा सन्तानिभ्यः तत्त्वान्यत्वेन अवाच्यत्वात् पुद्गलवत् सन्तानो निःस्वभावः / स्वभावेहि सति तत्त्वमन्यत्वं वा अवश्यम्भावि / " तत्त्व सं० पं० / तुलना_“अथ न सन्ताने भेदाभेदादिविकल्पोपनिपातः तस्य वस्तुविषयत्वात् सन्तानस्य चावस्तुत्वात्..... " स्या० रत्ना० पृ० 1089 / ७-तद् भेदादि-भां० / ८-नासहतया ब० / ९-नत्त्वेआ०, ब०, ज०। 10 “सशापरभावनिबन्धनं च एकतया प्रत्यभिज्ञानं लूनपुनजातीष्वव नखकेशादिप इत्यत्र विरोधाभावात् / " हेतुबि० टी० पृ. 133 उ० / “केषाञ्चिदेव चित्तानां विशिष्टा कार्यकारिता / नियता तेन निर्बाधा सर्वत्र स्मरणादयः // 543 // तत्त्व सं० / यत्र सन्ताने पटीयसा अनुभवेन उत्तरोत्तरविशिष्टतरतमक्षणोत्पादात् स्मृत्यादिबीजमाहितम् तत्रैव स्मरणादयः समुत्पद्यन्ते नान्यत्र, प्रतिनियतत्वात् कार्यकारणभावस्य..."स्मरणादिपूर्वकाश्च प्रत्यभिज्ञानादयः प्रसूयन्त इत्यविरुद्धम् / तत्त्व सं०५०।