________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्ष परि० पाठः। तत्रापि वस्तुतः परमार्थतो ने, संवृत्या तु स्यात् / यथा च नित्य-क्षणिकैकान्तेऽद्वैते चार्थक्रिया नोपपद्यते तथाले प्रतिपादयिष्यते / अतो बुद्धादिवत् प्रतिभासाद्वैतमपि मिथ्याविकल्पात्मकमेव। __ योप्याह-प्रमाणादिलक्षणपरीक्षार्थ शास्त्रमिदमारभ्यते, नचासत्प्रमाणादेः परीक्षा घटते, 5 तदसत्त्वं च 'सर्वप्रत्ययानां निरालम्बनतया स्वप्नप्रत्ययतुल्यत्वात्'इति, तन्मतमपाकर्तुमाह तत्र इत्यादि / तत्र तस्मिन् परोपंगते समये समः सदृशो जाग्रत्स्वप्नदशासाधारणोऽयो बोधः 'शंकन्ध्वादित्वादकारस्य पररूपत्वम्' तस्मिन् , किम् ? इत्याह-नार्थक्रिया इति / अर्थग्रहणमुपलक्षणं तेन अनर्थस्यापि ग्रहणम्। तत्रं अर्थः क्षणिकनिरंशज्ञानमात्रम् तस्य तेन अर्थ्यमानत्वात् , ततोऽन्यःअनर्थः विपर्ययात् , तयोः क्रिया हानोपादानलक्षणा सा न स्यात्; 10 नार्थस्योपादानमनर्थस्य च परिहारः सर्वज्ञानानां समत्वे युक्त इत्यग्रे प्रतिपादयिष्यते / कथं सा न स्यात् ? इत्याह-वस्तुनः परमार्थेन / 'वस्तुनः' इति च पाठे साधनदूषणलक्षणाद् वस्तुनः सकाशादित्यर्थः / एतेन 'भ्रान्तिमात्रमपि"निरस्तं न्यायस्य समत्वात् / ननु च 'असत्स्वेव चित्तसन्तानेषु' इत्ययुक्तमुक्तम् तेषां सत्त्वसंभवात्; तथाहि परमार्थसन्तः कार्यकारणभावप्रबन्धेन प्रवर्त्तमानाः पूर्वोत्तरचित्तक्षणाः ' प्रतिक्षणविशरारवोऽपरामृष्टभेदाः सन्तानेशब्दवाच्याः। न च प्रतिक्षपूर्वपक्षः णविशरारुत्वे चित्तक्षणानां कर्मफलसम्बन्धाश्रयस्यैकस्यात्मनोऽसत्त्वात् कृत 15 सन्तानवादे बौद्धानां 1 अर्थक्रिया। २-था प्रति-भां० / ३-दिव प्र-आ०,व०,ज०। 4. माध्यमिकः / 5 आदिपदेन प्रमेय-नय-निक्षपाः। 6 परोगते-आ०, ब०, ज०। 7 “शकन्ध्वादिषु पररूपं वाच्यम्" इति कात्यायनवार्तिकम् / 8 अर्थाऽनर्थयोर्मध्ये / 9 ततो यो नार्थो-आ०, ब०, ज.। 10 विभ्रमैकान्तः। १२-त्रं नि-आ०, ब०, ज०। १२-णाविश-आ०, ब०, ज० / 13 “सन्तानः समुदायश्च पङ्क्तिसेनादिवन्मृषा / सन्तानो नाम न कश्चिदेकः परमार्थसन् संभवति / किं तर्हि ? कार्यकारणभावप्रवृत्तक्षणपरम्पराप्रवाहरूप एवायम. ततो व्यतिरिक्तस्य अनुपलम्भात् / तस्मादेतेषामेव क्षणानामेकपदेन प्रतिपादनाय सङ्केतः कृतो बुद्धः व्यवहारार्थ सन्तान इति” / बोधिचर्या० पृ० 334 / “नैव, सन्ततिशब्देन क्षणाः सन्तानिनो हि ते / सामस्त्येन प्रकाश्यन्ते लाघवाय वनादिवत् // 1877 // नैष दोषः, सन्ततिशब्देन क्षणा एव वस्तुभूताः सन्तानिनो व्यवहारलाघवाय सामस्त्येन युगपत् प्रकाश्यन्ते वनादिशब्देन इव धवादयः / तत्त्वसं० पं० / न्यायप्र. वृ. पं० पृ. 41 / इदमेव सन्तानलक्षणम् बृहदा. वार्ति० पृ. 1489, न्यायवा० ता० टी० पृ. 214, न्यायमं० पृ० 443, सिद्धिवि० टी० पृ० 196 उ०, तत्त्वार्थश्लो० पृ० 23, अष्टसह० पृ० 165 इत्यादिषु उद्धृत्य खण्डितम्। जैननये सन्तानलक्षणं तु"पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशभाजोः अतिशयात्मनोः अन्वयः सन्तानः / अष्टश० अष्टसह. पृ० 186 /