________________ लघी० 112] . कण्टकशुद्धिः। कार्यकारणभावप्रबन्धेन प्रवर्त्तमानानि भविष्यन्ति इत्यत्राह - तत्त्वाहतुफलात्मनां तत्त्वेनपरमार्थेन अहेतुफलभूतः अकार्यकारणभूतः आत्मा स्वरूपं येषां तेषां तथाभूतानां तच्चित्तानां सन्तानेषु असत्स्वेव सत्सु, चेत् यदि बुद्धः स्वयम् आत्मना व्यवतिष्ठते-स्थिति लभते, केन ? स्वपरसङ्कल्पेन स्वपरयोः सङ्कल्पः ‘असतोः सन्तौ' इत्यवसायः तेन, किमर्थं व्यवतिष्ठत इत्याह-सत्त्वार्थ दुःखाद् दुःखहेतोर्वा विनेयजनोद्धरणार्थम् , कया ? करुणया 5 तदुक्तम्- “निर्वाणेऽपि परे प्राप्ते कृपाद्रीकृतचेतसाम् / तिष्ठेन्त्येवं पराधीना येषां तु महती कृपा // " [ ] इति / स इत्थंभूतो बुद्धः असति वस्तुनि सत्त्वाध्यवसायवान् नैव धर्मतीर्थकरो यथावस्थितवस्तुस्वभाववादित्वाभावाद् ईश्वरकपिलब्रह्मवत् , किन्तु मिथ्याविकल्पास्मक एव मिथ्या असत्यो यो विकल्पः संवृ|परनामा तदात्मक एव, किंवत् ? नित्यत्ववन्-यथा नित्यत्व- 10 मीश्वर-कपिल-ब्रह्मणाम् तत्प्रणीततत्त्वस्य च 'येत् परैः प्रतिज्ञातं तत् मिथ्याविकल्पात्मकमेव, न पुनः परमार्थतोऽस्ति तथा 'बुद्धोऽपि इति। नन्वस्य 'सर्वस्याऽभ्युपगमान्न दोष इति प्रतिभासाद्वैतवादी, तं प्रति तत्र इत्याद्याह / तत्रं तस्मिन् प्रतिभासाद्वैतवाद्यभ्युपगते, कस्मिन् ? समये संगतः सकलविज्ञानव्यक्तितादात्म्येन स्थितः अयः प्रतिभासस्तस्मिन् समये नार्थक्रिया अनुभवः " अन्त्या तावदियमर्थक्रिया यदुत स्वविषयविज्ञानोत्पादनं नोम' [ ] 15 इत्यभिधानात् / सा न, कस्य ? वस्तुनः अद्वयपदार्थस्य / 'वस्तुतः' इति च क्वचित् 1 संकल्पौ आ०, ब०, ज० / 2 “अकल्पकल्पासङ्ख्येयभावनापरिवद्धिताः / तिष्ठन्त्येव पराधीना येषां तु महती कृपा // ' अभि. आलोक पृ० 134 / 'तिष्ठन्त्येव ' इत्यादि उत्तरार्द्धस्तु प्रमाणवार्तिके (2 / 199) मूलरूपेण, तथा सिद्धि वि० टी० पृ. 386 उ० / आप्तप० पृ० 43 / प्रमेयकपृ० 25 पू० / न्यायविनि० वि० पृ० 471 उ० / लघी० वृ० पृ० 4 / इत्यादिषु अवतरणरूपेण उपलभ्यते / 3 चेतसः भां० / 4 तिष्ठत्येव ज० / ५-वापरा-भां० / 6 सुगतानाम् / 7 “कृपा हि त्रिविधा सत्त्वालम्बना पुत्रकलत्रादिषु, धर्मालम्बना सङ्कादिषु, निरालम्बना संपुटसंदष्टमण्डूकोद्धरणादिषु / तत्र महती निरालम्बना कृपा सुगतानां सत्त्वधर्माऽनपेक्षत्वात् इति / ते तिष्टन्त्येव न कदाचित् निर्वान्ति धर्मदेशनया जगदुपकारनिरतत्वात् जगतश्च अनन्तत्वात् / " आप्तप० पृ० 43 / ८-त्यपरिणामा-ब० / 9 नित्यवत्-भां० / १०-ब्रह्मणात-आ०,ब०,ज० / 11 नैयायिकादिभिः। १२-ज्ञानं-ब०,ज० / 13 बुद्धे. पि-आ०, ब०, ज०। 14 सर्वथा-ब० / १५-वादित्वं प्र-भां० / 16 “तत्रेत्यादि-तस्मिन् समये संगतः समस्तज्ञानेष्वनुगतः अयः प्रतिभासः समयः, तस्मिन् प्रतिभासाद्वैते वस्तुनः अद्वयपदार्थस्य अर्थक्रिया अनुभव। न स्यात् / " लघी० 70 पृ० 5 / १७-दने नाना-आ०, ब०, ज० / “तदुक्तम्मत्या (?) तावदियमर्थक्रिया यदुत स्ववेषयविज्ञानोत्पादनं नाम इति / " तत्त्वार्थ श्लो० पृ० 195 / 18 “वस्तुतः परमार्थतः पाठान्तरापेक्षया इदमुक्तम् / " लघी० वृ० पृ० 5 /