________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्ष परि० स्वपररूपादिना सदसदाद्यनेकान्तात्मकं वस्तु वदन्तीत्येवंशीलास्तेभ्यः / किमर्थ तेभ्यो नमोनमोस्तु ? इत्याह-स्वास्मोपलब्धये स्वस्य नमस्कर्तुः आत्मा नास्तिकतापरिहारादिविशिष्टं स्वरूपम् , तस्य उपलब्धये सकलजनप्रतीतये / अथवा, स्वस्य नमस्कर्तुरात्मनोऽनन्तज्ञानादिस्वरूपस्य उपलब्धये सिद्धये “सिद्धिः स्वात्मोपलब्धिः" [सं०सिद्धभ श्लो०१] इत्यभिधानात् / ____ननु चैकस्यापीष्टदेवताविशेषस्य नमस्कारकरणान्नास्तिकतापरिहारादिप्रयोजनप्रसिद्धरशेषस्य तत्करणप्रयासो निष्प्रयोजन इति चेत् ; तन्न; अशेषेष्टदेवताविशेषसंस्तवनस्य अशेषविघ्नविनाशेन अशेषप्रमाण-प्रमेय-नय-निक्षेपनिरूपणपरिसमाप्तिप्रयोजनेन सप्रमोजनत्वात् / न खलु निखिलं प्रमाणादिप्ररूपणं निखिलविघ्नविनाशव्यतिरेकेण सिद्धिमध्यास्ते, निखिलविघ्नविनाशोऽप्यखिलेष्ट देवतासंस्तवनव्यतिरेकेण / अथवा सर्वेषामप्यविशेषतो विघ्नविनाशनिमित्तत्वख्यापनार्थ तत्क१० रणम् , उक्तविशेषणविशिष्टेष्टदेवताविशेषस्य इयत्ताख्यापनार्थ वा / अस्तु नामैतत् ; तथापि-अन न्तगुणोदधिस्वरूपाणां भगवतामनन्तगुणसद्भावे किमित्येतद्गुणद्वयद्वारेण संस्तवनम् ? इत्यप्यचोद्यम्; शास्त्रकृतस्तद्गुणार्थित्वात् , यो यद्गुणार्थी स तद्गुणोपेतं पुरुषविशेषं नमस्कुर्वाणो दृष्टः यथा कश्चिद्धनुर्वेदपरिज्ञानार्थी तत्परिज्ञानगुणोपेतम् , धर्मतीर्थकरत्व-स्याद्वादित्वगुणार्थी चायं शास्त्रकार इति / 15 ननु क्षणिक-नित्यत्वादि-यथावस्थितवस्तुस्वभाववादित्वात् सुगतेश्वरकपिलब्रह्मणामेव धर्म तीर्थकरत्वम् , अतस्त एव शास्त्रस्यादौ वन्द्याः तत्प्रणीतमेव च प्रमाणादिलक्षणं तत्र व्युत्पादनाहम् इत्याशक्य स्वप्रमाणादिलक्षणवर्त्मनि कण्टकशुद्धयर्थ निराकुर्वन्नाह सन्तानेषु निरन्वयक्षणिकचित्तानामसत्त्वेव चेत्, तत्त्वाहेतुफलास्मनां स्वपरसङ्कल्पेन बुद्धः स्वयम् / सत्त्वार्थ व्यवतिष्ठते करुणया मिथ्याविकल्पात्मकः, स्यान्नित्त्यत्ववदेव तत्र समये नार्थक्रिया वस्तुनः // 2 // निरन्वयक्षणिकचित्तानाम् अन्योन्यविलक्षणक्षणिकज्ञानानां सन्तानेषु सन्त तिषु, कथंभूतेषु ? असत्स्वेव अविद्यमानेष्वेव, असत्त्वं च कारिकार्थः तेषां प्रमाणतोविचार्यमाणानामनुपपद्यमानत्त्वात्सिद्धम् , तदनुपपद्यमा नत्वं चानन्तरमेव समर्थयिष्यते। ननु माभूवंस्तत्सन्तानाः तच्चित्तानि तु गृह्यते"। त. राजवा० पृ. 181 / “सर्वथा तत्प्रयोगेऽपि सत्त्वादिप्राप्तिविच्छिदे। स्यात्कारः संप्रयुज्येत अनेकान्तद्योतकत्वतः " // 54 // तत्त्वार्थश्लो० 1 / 6 / पञ्चा० तत्त्वप्र० पृ. 30 / " स्याद् इत्यव्ययम् अनेकान्तावद्योतकम् "-रत्नाकरावता० 4 / 15 / सिद्ध हे. पृ० 1 / स्या० मं० पृ० 15 / 1 स्वरूपपर- भां० / २-खिल प्र- भां० / ३-वनाव्य-आ०, 20, ज०। ४-त्यचो-भां० / 5 तुलना-“यो यद्गुणलब्ध्यर्थी स तं वन्द्यमानो दृष्टः, यथा शस्त्रविद्यादिगुणलब्ध्यर्थी शस्त्रविद्यादिविदं तत्प्रणेतार च" आप्तप० पृ. 3 / 6 शास्त्रे / ७-निष्कंद-ब० /