________________ लघी० 11] . मङ्गलश्लोकः - धर्मः सद्वेद्यशुभायुर्नामगोत्रलक्षणं पुण्यम्, उत्तमक्षमादिस्वरूपो वा, तत्साध्यः कर्त्तशु भफलदः पुद्गलपरिणामो वा,जीवादिवस्तुनो यथावस्थितस्वभावोवा। न पुनः * कारिकार्थः- परपरिकल्पित आत्मविशेषगुणः, द्रव्यगुणकर्मलक्षणो वा, प्रकृतिपरिणाम विशेषो वाँ, अचेतनस्वभावो वा, तस्याऽने यथास्थानं निराकरिष्यमाणत्वात्। स एव तीर्थ संसारार्णवोत्तरणहेतुत्वात्, तस्य वा तीर्थम् आगमस्तदवगाहनहेतु- 5 त्वात् , तत् कृतवन्तोऽनुष्ठितवन्तः उपदिष्टवन्तश्च ये ऋषभादिमहावीरान्ता भगवन्तस्तेभ्यो नमोनमः अस्तु इत्याभीक्ष्ण्यप्रयोगेणात्यर्थं नमस्क्रियायां व्यापृतमात्मानं दर्शयति / पुनरपि किंविशिष्टेभ्यः ? स्याहादिभ्यः, "स्याच्छब्दोऽनेकान्तार्थः, स्यात् 1 “सद्वेद्यशुभायुनर्नामगोत्राणि पुण्यम्” / तत्त्वा० सू० 8 / 25 / “सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुनीमगोत्राणि पुण्यम् / " तत्त्वार्थभा० 8 / 26 / 2 "उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः”। तत्त्वा० सू० 9 / 6 / 3 “पुद्गलस्य कर्तृनिश्चयकर्मतामापन्नो विशिष्टप्रकृतित्वपरिणामों जीवशुभपरिणामनिमित्तो द्रव्यपुण्यम्"। पञ्चास्ति. तत्त्व. पृ० 196 / ४-तत्त्वभा-आ०, ब०, ज० / “धम्मो वत्थुसहावो खमादिभावो य दसविही धम्मो। चारित्तं खलु धम्मो जीवाणं रक्खणो धम्मो" // 'उक्तं च' इति कृत्त्वा षट्प्रा० टी० पृ० 8 / 5 "प्रीतेरात्माश्रयत्वादप्रतिषेधः / " न्या० सू० 4 / 1152 / “प्रीतिः आत्मप्रत्यक्षत्वाद् आत्माश्रया, तदाश्रयमेव कर्म धर्मसंज्ञितम्, धर्मस्य आत्मगुणत्वात् तस्मादात्मव्यतिरेकानुपपत्तिः / " न्याय भा० पृ. 373 / “धर्मः पुरुषगुणः कर्तुः प्रियहितमोक्षहेतुः अतीन्द्रियः अन्त्यसुखसंविज्ञानविरोधी पुरुषान्तःकरणसंयोगविशुद्धाभिसन्धिजः वतोश्रमिणां प्रतिनियतसाधननिमित्तः। तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेन अवस्थितानि द्रव्यगुणकर्माणि......"दृष्टं प्रयोजनमनुद्दिश्य एतानि साधनानि भावप्रसादं च अपेक्ष्य आत्ममनसोःसंयोगाद् धर्मोत्पत्तिरिति” / प्रश. भा० पृ. 272 / 6 “श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः / चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मता" // 191 // मी० श्लो० सू० 2 / 7 “अध्यवसायो बुद्धिधर्मो ज्ञानं विराग ऐश्वर्यम् / सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्" // 23 // तत्र बुद्धः सात्त्विक रूपं चतुर्विधं भवति-धर्मो ज्ञानं वैराग्यमैश्वर्यम् इति”–सांख्य का० माठर वृ० / “अन्तःकरणधर्मत्वं धर्मादीनाम्” / सांख्य द० 5 / 25 / 8 चेतननानास्व- भां० / बौद्धास्तु धर्मशब्दार्थमित्थं वर्णयन्तिआत्मसंयमकं चेतः परानुग्राहकं च यत् / मैत्रं स धर्म तद्बीजं फलस्व प्रेत्य चेह च / (). "धर्मशब्दोऽयं प्रवचने त्रिधा व्यवस्थापितः स्वलक्षणधारणार्थेन, कुगतिगमनविधारणार्थेन, पाश्चगतिकसंसारगमनविधारणा)-: . न / तत्र स्वलक्षणधारणार्थेन सर्वे साश्रवा अनाश्रवाश्च धर्मा इत्युच्यन्ते, कुगतिगमनविधारणार्थेन च दश कुशलादयो धर्मा इत्युच्यन्ते-'धर्मचारी सुखं शेते अस्मिल्लोके परत्र च'। पाञ्चगतिकसंसारविधारणार्थेन निर्वाणो धर्म इत्युच्यते। धर्म शरणं गच्छति इत्यत्र कुगतिगमनविधारणार्थेनैव धर्मशब्दोभिप्रेतः' / माध्यमिक वृ० पृ० 303-304 / ९-येतेवृष-भां० / 10 " वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषकः / स्यानिपातोऽर्थयोगित्वात् तव केवलिनामपि” // 103 // आप्तमी० / युक्तधनु० श्लो० 47 / " स च तिन्तप्रतिरूपको निपातः, तस्य अनेकान्तविधिविचारादिषु बहुष्वर्थेषु संभवत्सु इह विवक्षावशात् अनेकान्तार्थो