________________ लघीयस्नथालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्ष परि० बोधः कोप्यसमः समस्तविषयः प्राप्याऽकलङ्क पंदम् , जातस्तेन समस्तवस्तुविषयं व्याख्यायते तत्पदम् / किन्न श्रीगणभृत् जिनेन्द्रपदतः प्राप्तप्रभावः स्वयम् , व्याख्यात्यप्रतिमं वचो जिनपतेः सर्वात्मभाषात्मकम् // 4 // येषां न्यायमहोदधौ प्रतरणे वाञ्छास्ति सद्धीमताम् , नौतुल्यं निखिलार्थसाधनमिदं प्रारभ्यते तान् प्रति / 'ये तु स्वान्ततमस्तरङ्गतरलावर्तभ्रमभ्रामिताः, ते दोषेक्षणतत्पराः पदमपि प्राप्तुं न तत्र क्षमाः // 5 // श्रीमन्न्यायमहार्णवस्य 'निखिलप्रमेयरत्नसन्दर्भगर्भस्यावगाहनमव्युत्पन्नप्रज्ञैः कर्तुमशक्य१० मिति सक्षेपतस्तद्वयुत्पादनाय तदवगाहने पोतप्रख्यप्रकरणमिदमाचार्यः प्राह / तत्र शास्त्रस्यादौ शास्त्रकारो निर्विघ्नेन शास्त्रपरिसमाप्त्यादिकं फलमभिलषन्निष्टदेवताविशेषं नमस्करोति धर्मतीर्थकरेभ्योऽस्तु स्याद्वादिभ्यो नमोनमः। "ऋषभादिमहावीरान्तेभ्यः स्वात्मोपलब्धये // 1 // 1 प्रकरणम् / 2 सविवृतिलघीयत्रयम् / 3 तथाच "तव वागमृतं श्रीमत्सर्वभाषास्वभावकम् बृहत्स्व० श्लो० 96 / “गम्भीरं मधुरं मनोहरतरं दोषैरपेतं हितम् , कण्ठौष्ठादिवचोनिमित्तरहितं नो वातरोधोद्गतम् / स्पष्टं तत्तदभीष्टवस्तुकथकं निःशेषभाषात्मकम् , दूरासन्नसमं समं निरुपमं जनं वचः पातु नः" // 29 // समव. स्तो० / “सर्वभाषापरिणतां जैनी वाचमुपास्महे"। काव्यानुशा० श्लो. 1 / 4 “ये नूनं प्रथयन्ति नोऽसमगुणा" इत्यादिना प्रमेयकमलमार्तण्डेऽपि स्मृतो दुर्जनः / वादिराजोऽपि अमुमेव अनुसरति; तथाहि-“येषामस्ति गुणेषु सस्पृहमतिर्ये वस्तुसारं विदुः" इत्यादि, न्याय वि० वि० / ५-धिप्र-भां / 6 यत्त-आ०, ब०, ज० / 7 न्यायस्य विविधलक्षणानि-“प्रमाणैरर्थपरीक्षणं न्यायः / प्रत्यक्षागमाश्रितमनुमानम् सा अन्वीक्षा, प्रत्यक्षागमाभ्यामीक्षितस्य अन्वीक्षणम् अन्वीक्षा, तया प्रवर्त्तते इति आन्वीक्षिकी न्यायविद्या न्यायशास्त्रम् / यत्पुनः अनुमानं प्रत्यक्षागमविरुद्ध न्यायाभासः सः इति"। न्यायभा० पृ०६ / “साधनीयार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते, तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्य अवयवा उच्यन्ते / तेषु प्रमाणसमवायः-आगमः प्रतिज्ञा, हेतुः अनुमानम् , उदाहरणं प्रत्यक्षम् , उपनयः उपमानम् , सर्वेषामेकार्थसमवाये सामर्थ्य प्रदर्शनं निगमनमिति / सोऽयं परगो न्यायः इति / " न्याय भा० पृ. 9 / “समस्तरूपोपन्नलिङ्गबोधकवाक्यजातम्" / न्यायकु० प्रका० पृ० 1, बोधिनी पृ. 2 / “न्यायः तर्कमार्गः" न्यायप्र. वृत्ति पं० पृ. 38 / “अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यम्' / तत्त्वचि० अव० पृ० 691 / वैशे० उप० पृ. 329 / “न्यायः परार्थानुमानम्” न्यायली. पृ०५६। “अनिश्चितं निर्वाधश्च वस्तुतत्त्वं नीयतेऽनेन इति न्यायः”। न्यायविनि० वि० पृ० 15 पू० / न्यायाव० टि० पृ० 1 / प्रमेयर० टि० पृ० 3 / 8 अखिल-भां० / 9 भट्टाकलङ्कः / 10 आदिपदेन नास्तिकत्वपरिहारशिष्टाचारपरिपालनादिकं समुच्चीयते / 11 वृष-लघी०।।