________________ श्रीमद्भट्टाऽकलङ्कदेवरचितम् स्वविवृतियुतं लघीयस्त्रय-प्रकरणम् श्रीपद्मनन्दिप्रभुशिष्य श्रीमत्प्रभाचन्द्राचार्यनिर्मितन्यायकुमुदचन्द्राख्य-व्याख्यासहितम् / ... Deo #R> प्रमाणप्रवेशे प्रत्यक्षपरिच्छेदः / सिद्धिप्रदं प्रकटिताखिलवस्तुतत्त्वमानन्दमन्दिरमशेषगुणैकपात्रम् / श्रीमजिनेन्द्रमंकलङ्कमनन्तवीर्यमानम्य लक्षणपदं प्रवरं प्रवक्ष्ये // 1 // यज्ज्ञानोदधिमध्यमुन्नतमिदं विश्वं प्रपञ्चाञ्चितम् , प्राप्याभाति विचित्ररत्ननिचयप्रख्यं प्रभाभासुरम् / श्रीचिन्तामणिसुभेन्दुसदृशः शास्त्रप्रबन्धश्चिरम् , जीयात्सोऽत्र कुतर्कदर्पदलनो भव्याब्जतेजोनिधिः // 2 // माणिक्यनन्दिपॅदमप्रतिमप्रबोधम् ,व्याख्याय बोधनिधिरेष पुनः प्रबन्धः / प्रारभ्यते सकलसिद्धिविधौ समर्थे, मूले प्रकाशितजगत्त्रयवस्तुसार्थे / / 3 / / ___ 1 प्रमेयकमलमार्तण्डस्य प्रारम्भोऽपि अनेनैव ग्रन्थकृता “सिद्धर्धाम महारिमोहहननम् "इत्यादिना कृतः / पूज्यपादेनापि “सिद्धिरनेकान्तात्" इति सूत्रेण जैनेन्द्रव्याकरणं प्रारब्धम् / आदी सकारप्रयोगः सुखदः, तथा च " सही सुखदाहदौ ' अलं० चि० 1149 / “मङ्गलार्थम्- माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थ सिद्धशब्दम् आदितः प्रयुक्ते"। पात. महाभा० पृ० 57 / 2 जिनेन्द्रविशेषणम् , लघीयस्त्रयकर्तुनर्नाम च / 3 जिनेन्द्रविशेषणम् / अकलङ्कविरचितगूढाभिसन्धिप्रकरणानां ख्यातनामा ज्ञाता, सिद्धिविनिश्चयप्रकरणस्य टीकाकारश्च; तथा च "गूढमर्थमकलङ्कवाङ्मयागाधभूमिनिहितं तदर्थिनाम् / व्यञ्जयत्यमलमनन्तवीर्यवाग् दीपवर्तिरनिशं पदे पदे / " न्यायविनि० वि० पृ० 1, तथा 476 पू० / ४-श्वार्चि-ब०,-ञ्चाम्वि-भा० / 5 न्यायकुमुदचन्द्रकर्तुनर्नाम / 'प्रभेन्दुभवनम् / इत्यादि, प्रमेयक. पृ०१। 6 कुतर्कतर्कद-ज०। 7 परीक्षामुखम् / ८-विधे-ज० /