________________ 3. 6 ] हरिवंशपर्व [ 3. 32 अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान् / असिनयां जनयामास दक्ष एव प्रजापतिः // 6 तांस्तु दृष्ट्वा महाभागान्संविवर्धयिषून्प्रजाः / देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् / नाशाय वचनं तेषां शापायैवात्मनस्तथा // 7 यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत्। दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः // 8 पूर्व स हि समुत्पन्नो नारदः परमेष्ठिनः / असिनयामथ वैरण्यां भूयो देवर्षिसत्तमः / तं भूयो जनयामास पितेव मुनिपुंगवम् // 9 तेन दक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः / निर्मथ्य नाशिताः सर्वे विधिना च न संशयः॥ तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः / ब्रह्मर्षीन्पुरतः कृत्वा याचितः परमेष्ठिना / / 11 / ततोऽभिसंधिं चक्रे वै दक्षस्तु परमेष्ठिना / कन्यायां नारदो मह्यं तव पुत्रो भवेदिति / / 12 ततो दक्षः सुतां प्रादात्प्रियां वै परमेष्ठिने / स तस्यां नारदो जज्ञे भूयः शापभयादृषिः // 13 जनमेजय उवाच / कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा / 'प्रजापतेर्द्विजश्रेष्ठ श्रोतुमिच्छामि तत्त्वतः // 14 वैशंपायन उवाच / दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः / समागता महावीर्या नारदस्तानुवाच ह // 15 बालिशा बत यूयं ये नास्या जानीत वै भुवः / अन्तरूलमधश्चैव कथं सक्ष्यथ बै प्रजाः // 16 ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् / अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः // 17 हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः / / वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः // 18 - विवर्धयिषवस्ते तु शबलाश्वाः प्रजास्तदा / पूर्वोक्तं वचनं तात नारदेनैव चोदिताः // 19 अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः / भ्रातृणां पदवी चैव गन्तव्या नात्र संशयः / ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः॥ तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् / अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः // 21 तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे नृप / प्रयातो नश्यति विभो तन्न कार्य विपश्यता // 22 तांश्चापि नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः / षष्टिं दक्षोऽसृजत्कन्या वैरण्यामिति नः श्रुतम् // 23 ददौ स दश धर्माय कश्यपाय त्रयोदश / सप्तविंशति सोमाय चतस्रोऽरिष्टनेमये // 24 द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा। द्वे भृशाश्वाय विदुषे तासां नामानि मे शृणु // 25 अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती। संकल्पा च मुहूर्ता च साध्या विश्वा च भारत / धर्मपन्यो दश त्वेतास्तास्वपत्यानि मे शृणु // 26 विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत / मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः॥२७ भानोस्तु भानवस्तात मुहुर्तास्तु मुहूर्तजाः / लम्बायाश्चैव घोषोऽथ नागवीथी च जामिजा॥ पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत / संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव च // 29 या राजन्सोमपन्यस्तु दक्षः प्राचेतसो ददौ / सर्वा नक्षत्रनाम्न्यस्तु ज्योतिष परिकीर्तिताः // 30 ये त्वनेके सुरगणा देवा ज्योतिःपुरोगमाः / वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् / / आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः / प्रत्यूषश्च प्रभासश्च वसवो नामभिः श्रुताः // 32 - 7