________________ 14. 22. 28 ] महाभारते [ 14. 28. 17 दारुक्षयेऽग्निर्वलितो यथैव / / 28 कामं तु नः स्वेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः / अस्मानृते नास्ति तवोपलब्धि स्त्वामप्यतेऽस्मान्न भजेत हर्षः // 29 इति श्रीमहाभारते आश्वमेधिकपर्वणि द्वाविंशोऽध्यायः॥ 22 // 23 ब्राह्मण उवाच / अत्राप्युदाहरन्तीममितिहासं पुरातनम् / सुभगे पञ्चहोतॄणां विधानमिह यादृशम् // 1 प्राणापानावुदानश्च समानो व्यान एव च / पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः // 2 ब्राह्मण्युवाच / स्वभावात्सप्त होतार इति ते पूर्विका मतिः। यथा वै पञ्च होतारः परो भावस्तथोच्यताम् // 3 ब्राह्मण उवाच / प्राणेन संभृतो वायुरपानो जायते ततः। अपाने संभृतो वायुस्ततो व्यानः प्रवर्तते // 4 व्यानेन संभृतो वायुस्ततोदानः प्रवर्तते / उदाने संभृतो वायुः समानः संप्रवर्तते // 5 वेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् / यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति // ब्रह्मोवाच / यस्मिन्प्रलीने प्रलयं व्रजन्ति | सर्वे प्राणाः प्राणभृतां शरीरे। यस्मिन्प्रचीर्णे च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः // 7 प्राण उवाच। मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् // 8 ब्राह्मण उवाच / प्राणः प्रलीयत ततः पुनश्च प्रचचार ह। समानश्चाप्युदानश्च वचोऽवतां ततः शुभे // 9 न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् / न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव / प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत // 10 मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् // 11 व्यानश्च तमुदानश्च भाषमाणमथोचतुः। अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव // 12 अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् / श्रेष्ठोऽहमस्मि सर्वेषां श्रूयत्न येन हेतुना // 13 मयि प्रलीने प्रलयं व्रजन्ति ___ सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् // 14 प्रालीयत ततो व्यानः पुनश्च प्रचचार ह / प्राणापानावुदानश्च समानश्च तमब्रुवन् / न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव // 15 प्रचचार पुनानः समानः पुनरब्रवीत् / श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना // 16 मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे / मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् // 17 -2778 -