________________ 12. 195. 12] शान्तिपर्व [12. 196.2 यथा च कश्चित्परशुं गृहीत्वा - धूमं न पश्येज्वलनं च काष्ठे / तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्यत् // 12 तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्वलनं च योगात् / तद्वत्सुबुद्धिः सममिन्द्रियत्वा दुधः परं पश्यति स्वं स्वभावम् / / 13 यथात्मनोऽङ्ग पतितं पृथिव्यां स्वप्नान्तरे पश्यति चात्मनोऽन्यत् / श्रोत्रादियुक्तः सुमनाः सुबुद्धि लिङ्गात्तथा गच्छति लिङ्गमन्यत् // 14 उत्पत्तिवृद्धिक्षयसंनिपातै र्न युज्यतेऽसौ परमः शरीरी। अनेन लिङ्गेन तु लिङ्गमन्य गच्छत्यदृष्टः प्रतिसंधियोगात् // 15 न चक्षुषा पश्यति रूपमात्मनो __न चापि संस्पर्शमुपैति किंचित् / न चापि तैः साधयतेऽथ कार्य ले तं न पश्यन्ति स पश्यते तान् // 16 यथा प्रदीपे ज्वलतोऽनलस्य संतापजं रूपमुपैति किंचित् / न चान्तरं रूपगुणं बिभर्ति __ तथैव तदृश्यते रूपमस्य // 17 यथा मनुष्यः परिमुच्य काय- मदृश्यमन्यद्विशते शरीरम् / विसृज्य भूतेषु महत्सु देहं .. तदाश्रयं चैव बिभर्ति रूपम् // 18 खं वायुमग्निं सलिलं तथोर्वी . समन्ततोऽभ्याविशते शरीरी। म.भा. 283 -2257 नानाश्रयाः कर्मसु वर्तमानाः __ श्रोत्रादयः पञ्च गुणाश्रयन्ते // 19 श्रोत्रं खतो घ्राणमथो पृथिव्या स्तेजोमयं रूपमथो विपाकः / जलाश्रयः स्वेद उक्तो रसश्च वाय्वात्मकः स्पर्शकृतो गुणश्च // 20 महत्सु भूतेषु वसन्ति पञ्च पञ्चन्द्रियार्थाश्च तथेन्द्रियेषु। सर्वाणि चैतानि मनोनुगानि बुद्धिं मनोऽन्वेति मनः खभावम् // 21 शुभाशुभं कर्म कृतं यदस्य तदेव प्रत्याददते स्वदेहे। मनोऽनुवर्तन्ति परावराणि __ जलौकसः स्रोत इवानुकूलम् // 22 चलं यथा दृष्टिपथं परति सूक्ष्म महद्रूपमिवाभिपाति। स्वरूपमालोचयते च रूपं परं तथा बुद्धिपथं परैति // 23 इति श्रीमहाभारते शान्तिपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः॥ 195 // मनुरुवाच। यदिन्द्रियैस्तूपकृतान्पुरस्ता प्राप्तान्गुणान्संस्मरते चिराय / तेष्विन्द्रियेषूपहतेषु पश्चा त्स बुद्धिरूपः परमः स्वभावः // 1. यथेन्द्रियार्थान्युगपत्समस्ता नावेक्षते कृत्स्नमतुल्यकालम् / यथाबलं संचरते स विद्वां स्तस्मात्स एकः परमः शरीरी // 2 .. -