________________ 12. 12. 28 ] शान्तिपर्व [12. 14.3 प्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च // 28 अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः / वयं ते राजकलयो भविष्यामो विशां पते // 29 अदातारोऽशरण्याश्च राजकिल्बिषभागिनः। दुःखानामेव भोक्तारो न सुखानां कदाचन // 30 अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् / तीर्थेष्वनभिसंत्यज्य प्रव्रजिष्यसि चेदथ / / 31 छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् / लोकयोरुभयोर्धष्टो ह्यन्तराले व्यवस्थितः // 32 अन्तर्बहिश्च यत्किचिन्मनोव्यासङ्गकारकम् / परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते // 33 एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते / ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् // 34 निहत्य शत्रूस्तरसा समृद्धा शको यथा दैत्यबलानि संख्ये / कः पार्थ शोचेन्निरतः स्वधर्मे - पूर्वैः स्मृते पार्थिव शिष्टजुष्टे // 35 क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्भ्यः प्रदाय / नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताद्य पार्थ // 36 इति श्रीमहाभारते शान्तिपर्वणि द्वादशोऽध्यायः // 12 // यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः // 3 व्यक्षरस्तु भवेन्मृत्युरुयक्षरं ब्रह्म शाश्वतम् / ममेति च भवेन्मृत्युन ममेति च शाश्वतम् // 4 ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ / अदृश्यमानौ भूतानि योधयेतामसंशयम् // 5 अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत / भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते // 6 अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा / नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः // 7 तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः / पन्था निषेवितः सद्भिः स निषेव्यो विजानता // 8 लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् / न भुङ्क्ते यो नृपः सम्यङिष्फलं तस्य जीवितम्॥९ अथ वा वसतो राजन्वने वन्येन जीवतः / द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते // 10 बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत / ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् // 11 भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः / दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि // 12 तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम् / तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम // 13 इति श्रीमहाभारते शान्तिपर्वणि प्रयोदशोऽध्यायः॥ 13 // सहदेव उवाच। वैशंपायन उवाच / न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत। अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे / शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा // 1 / भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् // 1 बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः। महाभिजनसंपन्ना श्रीमत्यायतलोचना / यो धर्मो यत्सुखं वा स्याद्विषतां तत्तथास्तु नः // 2 अभ्यभाषत राजेन्द्र द्रौपदी योषितां वरा // 2 शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः / आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् / म. भा. 251 - 2001 -