________________ 5. 197.6] महाभारते [5. 197. 21 अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः / धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः // 6 भीमं च युयुधानं च पाण्डवं च धनंजयम् / द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः // 7 भाण्डं समारोपयतां चरतां संप्रधावताम् / हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् // 8 स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः / तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः // 9 भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता / गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत // 10 ततः पुनरनीकानि व्ययोजयत बुद्धिमान् / मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् // 11 / / द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः / नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् // 12 दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः / अयुतं च पदातीनां रथाः पञ्चशतास्तथा // 13 भीमसेनं च दुर्धर्ष प्रथमं प्रादिशद्बलम् / मध्यमे तु विराटं च जयत्सेनं च मागधम् // 14 महारथौ च पाश्चाल्यौ युधामन्यूत्तमौजसौ। वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ / अन्वयातां ततो मध्ये वासुदेवधनंजयौ // 15 बभूवुरतिसंरब्धाः कृतप्रहरणा नराः / तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः // 16 पञ्च नागसहस्राणि रथवंशाश्च सर्वशः / पदातयश्च ये शूराः कार्मुकासिगदाधराः / सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः // 17 युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे। . तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः // 18 तत्र नागसहस्राणि हयानामयुतानि च / तथा रथसहस्राणि पदातीनां च भारत / यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् // 19 ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः / नदन्तः प्रययुस्तेषामनीकानि सहस्रशः // 20 तत्र भेरीसहस्राणि शङ्खानामयुतानि च। . वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः // 21 इति श्रीमहाभारते उद्योगपर्वणि सप्तनवत्यधिकशततमोऽध्यायः // 197 // // समाप्तमम्बोपाख्यानपर्व // // समाप्तमुद्योगपर्व // - 1128 -