________________ 5. 133. 20 ] उद्योगपर्व [5. 134.6 पुत्र उवाच / अकोशस्यासहायस्य कुतः स्विद्विजयो मम / इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् / राज्यागावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः // 20 ईदृशं भवती कंचिदुपायमनुपश्यति / तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते। करिष्यामि हि तत्सर्वं यथावदनुशासनम् // 21 मातोवाच। पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः / अभूत्वा हि भवन्त्या भूत्वा नश्यन्ति चापरे // अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः / सर्वेषां कर्मणां तात फले नित्यमनित्यता // 23 अनित्यमिति जानन्तो न भवन्ति भवन्ति च / अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते // 24 ऐकगुण्यमनीहायामभावः कर्मणां फलम् / अथ द्वैगुण्यमीहायां फलं भवति वा न वा // 25 यस्य प्रागेव विदिता सर्वार्थानामनित्यता। नुवेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज // 26 उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु / भविष्यतीत्येव मनः कृत्वा सततमव्यथैः / मङ्गलानि पुरस्कृत्य ब्राह्मणैश्वेश्वरैः सह // 27 प्राजस्य नृपतेराशु वृद्धिर्भवति पुत्रक / अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः // 28 निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च / अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् / पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि // 29 क्रुद्धाल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान् / स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय // 30 एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् / / महावेग इवोद्भूतो मातरिश्वा बलाहकान् / / 31 म.भा. 133 तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः / ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् // . यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् / तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव // 33 तं विदित्वा पराक्रान्तं वशे न कुरुते यदि / निर्वादैनिर्वदेदेनमन्ततस्तद्भविष्यति // 34 निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति / धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च // 35 स्खलितार्थ पुनस्तात संत्यजन्त्यपि बान्धवाः / अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् // शत्रु कृत्वा यः सहायं विश्वासमुपगच्छति / अतः संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति // 37 इति श्रीमहाभारते उद्योगपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः // 133 // 134 मातोवाच। नैव राज्ञा दरः कार्यों जातु कस्यांचिदापदि / अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् // 1 दीर्ण हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते। राष्ट्र बलममात्याश्च पृथक्कुर्वन्ति ते मतिम् // 2 शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः / अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः // 3 य एवात्यन्तसुहृदस्त एनं पर्युपासते / अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव / शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान् // 4 अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः / ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः / मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः // 5 प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव / उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम् // 6 . - 1057 -