________________ 4. 12. 29 ] महाभारते [ 4. 13. 17 बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः / विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः // 29 अश्वैर्विनीतैर्जवनस्तत्र तत्र समागतैः। तोषयामास नकुलो राजानं राजसत्तम // 30 तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु / विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो॥३१ एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः। कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा / / 32 इति श्रीमहाभारते विराटपर्वणि द्वादशोऽध्यायः // 12 // // समाप्तं वैराटपर्व // 13 वैशंपायन उवाच / वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा / महारथेषु छन्नेषु मासा दश समत्ययुः / / 1 याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते। अवसत्परिचारार्हा सुदुःखं जनमेजय // 2 तथा चरन्तीं पाञ्चाली सुदेष्णाया निवेशने / सेनापतिविराटस्य ददर्श जलजाननाम् // 3 तां दृष्ट्वा देवगर्भाभां चरन्ती देवतामिव / कीचकः कामयामास कामबाणप्रपीडितः॥४ स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै। प्रहसन्निव सेनानीरिदं वचनमब्रवीत् // 5 नेयं पुरा जातु मयेह दृष्टा राज्ञो विराटस्य निवेशने शुभा। रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी / / 6 का देवरूपा हृदयंगमा शुभे आचक्ष्व मे का च कुतश्च शोभना। चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौषधमद्य मे मतम् // 7 अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् / अयुक्तरूपं हि करोति कर्म ते ___ प्रशास्तु मां यच्च ममास्ति किंचन // 8 प्रभूतनागाश्वरथं महाधनं समृद्धियुक्तं बहुपानभोजनम्। . मनोहरं काश्चनचित्रभूषणं गृहं महच्छोभयतामियं मम // 9 ततः सुदेष्णामनुमत्र्य कीचक स्ततः समभ्येत्य नराधिपात्मजाम / उवाच कृष्णामभिसान्त्वयंस्तदा / ___ मृगेन्द्रकन्यामिव जम्बुको वने // 10 इदं च रूपं प्रथमं च ते वयो निरर्थकं केवलमद्य भामिनि / अधार्यमाणा स्रगिवोत्तमा यथा ___ न शोभसे सुन्दरि शोभना सती॥ 11 त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि / अहं च ते सुन्दरि दासवस्थितः सदा भविष्ये वशगो वरानने // 12 द्रौपद्युवाच / अप्रार्थनीयामिह मां सतपुत्राभिमन्यसे / विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् // 13 परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम् / दयिताः प्राणिनां दारा धर्मं समनुचिन्तय // 14 परदारे न ते बुद्धिर्जातु कार्या कथंचन / विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् // 15 मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः / अयशः प्राप्नुयाद्धोरं सुमहत्प्राप्नुयाद्भयम् // 16 मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् /