________________ 1. 25. 10] महाभारते [1. 26.2 कश्यप उवाच। आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् / / भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः // 10 / स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः / विभाग कीर्तयत्येव सुप्रतीकोऽथ नित्यशः // 11 अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः / विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा। ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः॥१२ ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः / विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः // 13 / विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ / भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते // 14 तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः / गुरुशास्त्रे निबद्धानामन्योन्यमभिशकिनाम् // 15 नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि / यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि // 16 शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् / त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि // 17 / एवमन्योन्यशापात्ती सुप्रतीकविभावसू / गजकच्छपतां प्राप्तावार्थं मूढचेतसौ // 18 रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि / परस्परद्वेषरतौ प्रमाणबलदर्पितौ // 19 सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ / तयोरेकतरः श्रीमान्समुपैति महागजः // 20 तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः / उत्थितोऽसौ महाकायः कृत्स्नं संक्षोभयन्सरः // 21 तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् / दन्तहस्ताग्रलालपादवेगेन वीर्यवान् // 22 तं विक्षोभयमाणं तु सरो बहुझषाकुलम् / कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् / / 23 / षडुच्छ्रितो योजनानि गजस्तहिगुणायतः। कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः // 24 तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ / उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः // 25 ___ सूत उवाच / स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः / नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् // 26 समुत्पपात चाकाशं तत उच्चैर्विहंगमः / सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् // 27 . ते भीताः समकम्पन्त तस्य पक्षानिलाहताः। न नो भङ्यादिति तदा दिव्याः कनकशाखिनः // 28 प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्करान् / अन्यानतुलरूपाङ्गानुपचक्राम खेचरः॥ 29 काश्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः / सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् // 30 . तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः। अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् // 31 यैषा मम महाशाखा शतयोजनमायता। एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ // 32 ततो द्रुमं पतगसहस्रसेवितं ___महीधरप्रतिमवपुः प्रकम्पयन् / खगोत्तमो द्रुतमभिपत्य वेगवा. न्बभञ्ज तामविरलपत्रसंवृताम् // 33 इति श्रीमहाभारते आदिपर्वणि पञ्चविंशोऽध्यायः // 25 // सूत उवाच / स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा / अभज्यत तरोः शाखा भग्नां चैनामधारयत् / / 1 तां भग्नां स महाशाखां स्मयन्समवलोकयन् / अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् // 2