________________ 1. 26. 3] आदिपर्व [1. 26. 31 स तद्विनाशसंत्रासादनुपत्य खगाधिपः / शाखामास्येन जग्राह तेषामेवान्ववेक्षया / शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् // 3 एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः / दयार्थ वालखिल्यानां न च स्थानमविन्दत // 4 स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् / ददर्श कश्यपं तत्र पितरं तपसि स्थितम् / / 5 ददर्श तं पिता चापि दिव्यरूपं विहंगमम् / तेजोवीर्यबलोपेतं मनोमारुतरंहसम् // 6 शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् / अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम् // 7 मायावीर्यधरं साक्षादग्निमिद्धमियोद्यतम् / अप्रधृष्यमजेयं च देवदानवराक्षसैः // 8 भेत्तारं गिरिशृङ्गाणां नंदीजलविशोषणम् / लोकसंलोडनं घोरं कृतान्तसमदर्शनम् / / 9 समागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा / विदित्वा चास्य संकल्पमिदं वचनमब्रवीत् // 10 पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् / मात्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥११ प्रसादयामास स तान्कश्यपः पुत्रकारणात् / बालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् / / 12 प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः / चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ / / 13 एवमुक्ता भगवता मुनयस्ते समभ्ययुः / मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः // 14 उतस्तेष्वपयातेषु पितरं विनतात्मजः। साखाव्याक्षिप्तवदनः पयपृच्छत कश्यपम् / / 15 भगवन्क विमुश्चामि तरुशाखामिमामहम् / वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम // 16 खतो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् / अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः॥ 17 तं पर्वतमहाकुक्षिमाविश्य मनसा खगः / जवेनाभ्यपतत्तायः सशाखागजकच्छपः // 18 न तां वध्रः परिणहेच्छतचर्मा महानणुः / शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः // 19 ततः स शतसाहस्रं योजनान्तरमागतः। कालेन नातिमहता गरुडः पततां वरः / / 20 स तं गत्वा क्षणेनैव पर्वतं वचनापितुः / अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः / / 21 पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् / मुमोच पुष्पवर्षं च समागलितपादपः / / 22 शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः / मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् / / 23 शाखिनो बहवश्चापि शाखयाभिहतास्तया। काञ्चनैः कुसुमै न्ति विद्युत्यन्त इवाम्बुदाः // 24 ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः / व्यराजशाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः // 25 ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः / भक्षयामास गरुडस्तावुभौ गजकच्छपौ // 26 ततः पर्वतकूटाग्रादुत्पपात मनोजवः / प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः // 27 इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् / सधूमा चापतत्साचिर्दिवोल्का नभसभ्युता // 28 तथा वसूनां रुद्राणामादित्यानां च सर्वशः / साध्यानां मरुतां चैव ये चान्ये देवतागणाः / खं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् // 29 अभूतपूर्व संग्रामे तदा देवासुरेऽपि च / ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः // 30 निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् / देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा // 31 -45