________________ 1. 21. 16 ] महाभारते [1. 24. 3 शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्भुतैः // 4 किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः / मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् / नानापक्षिरुतं रम्यं कद्रू पुत्रप्रहर्षणम् / / 5 तत्ते वनं समासाद्य विजयुः पन्नगा मुदा। अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् // 6 वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् / त्वं हि देशान्बहूरम्यान्पतन्पश्यसि खेचर // 7 स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा / किं कारणं मया मातः कर्तव्यं सर्पभाषितम् / / 8 मनीषिभिर्मुदितमना महर्षिभिः / अभिष्टुतः पिबसि च सोममध्वरे ___ वषट्कृतान्यपि च हवींषि भूतये / / 16 त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च / त्ववेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्ववेदैः // 17 / इति श्रीमहाभारते आदिपर्वणि एकविंशोऽध्यायः // 21 // 22 सूत उवाच / एवं स्तुतस्तदा कदा भगवान्हरिवाहनः / नीलजीमूतसंघातैव्योम सर्व समावृणोत् // 1 ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्वलाः / परस्परमिवात्यर्थं गर्जन्तः सततं दिवि // 2 संघातितमिवाकाशं जलदैः सुमहाद्भुतैः / सृजद्भिरतुलं तोयमजस्रं सुमहारवैः // 3 संप्रनृत्तमिवाकाशं धारोमिभिरनेकशः / मेघस्तनितनिर्घोषमम्बरं समपद्यत // 4 नागानामुत्तमो हर्षस्तदा वर्षति वासवे / आपूर्यत मही चापि सलिलेन समन्ततः // 5 इति श्रीमहाभारते आदिपर्वणि द्वाविंशोऽध्यायः // 22 // विनतोवाच / दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम। पणं वितथमास्थाय स:रुपधिना कृतम् // 9 सूत उवाच। तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः। उवाच वचनं सांस्तेन दुःखेन दुःखितः / / 10 किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् / दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः॥ 11 श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा / ततो दास्याद्विप्रमोक्षो भविता तव खेचर // 12 इति श्रीमहाभारते आदिपर्वणि त्रयोविंशोऽध्यायः // 23 // . 24 - सूत उवाच / इत्युक्तो गरुडः सस्ततो मातरमब्रवीत् / गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् / / 1 विनतोवाच। समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् / सहस्राणामनेकानां तान्भुक्त्वामृतमानय // 2 न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन / अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः // 3 सूत उवाच / सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै। सागराम्बुपरिक्षिप्तं पक्षिसंघनिनादितम् // 1 विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् / भवनैरावृतं रम्यैस्तथा पद्माकरैरपि // 2 प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् / दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् // 3 उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि / -42