________________ 1. 19. 1] महाभारते [1. 20.8 सूत उवाच / ततो रजन्यां व्युष्टायां प्रमात उदिते रवौ / कद्रूश्च विनता चैव भगिन्यो ते तपोधन // 1 अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा। जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात् // 2 ददृशाते तदा तत्र समुद्र निधिमम्भसाम् / तिमिंगिलझषाकीणं मकरैरावृतं तथा // 3 सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् / उप्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् // 4 आकरं सर्वरत्नानामालयं वरुणस्य च / नागानामालयं रम्यमुत्तमं सरितां पतिम् // 5 पातालज्वलनावासमसुराणां च बन्धनम् / भयंकरं च सत्त्वानां पयसां निधिमर्णवम् // 6 शुभं दिव्यममानाममृतस्याकरं परम् / अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् // 7 घोरं जलचरारावरौद्रं भैरवनिस्वनम् / गम्भीरावर्तकलिलं सर्वभूतभयंकरम् // 8 वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् / वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः // 9 चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम्। पाश्चजन्यस्य जननं रत्नाकरमनुत्तमम् // 10 गां विन्दता भगवता गोविन्देनामितौजसा / वराहरूपिणा चान्तर्विक्षोभितजलाविलम् // 11 . ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा। * अनासादितगाधं च पातालतलमव्ययम् // 12 अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः / युगादिकालशयनं विष्णोरमिततेजसः // 13 वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् / अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् // 14 महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः / अभिसार्यमाणमनिशं ददृशाते महार्णवम् // 15 गम्भीरं तिमिमकरोग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः। विस्तीर्णं ददृशतुरम्बरप्रकाशं . तेऽगाधं निधिमुरुमम्भसामनन्तम् // 16 इत्येवं झषमकरोर्मिसंकुलं तं गम्भीरं विकसितमम्बरप्रकाशम् / पातालज्वलनशिखाविदीपितं तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् // 17 इति श्रीमहाभारते आदिपर्वणि एकोनविंशोऽध्यायः॥१९॥ . 20 सूत उवाच / तं समुद्रमतिक्रम्य कदूर्विनतया सह / न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा // 1 निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् / विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् // 2 ततः सा विनता तस्मिन्पणितेन पराजिता / अभवदुःखसंतप्ता दासीभावं समास्थिता // 3 एतस्मिन्नन्तरें चैव गरुडः काल आगते / विना मात्रा महातेजा विदार्याण्डमजायत // 4 अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः / प्रवृद्धः सहसा पक्षी महाकायो नभोगतः // 5 तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् / प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् // 6 अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि / असौ हि राशिः सुमहान्समिद्धस्तव सर्पति // 7 अग्निरुवाच / नैतदेवं यथा यूयं मन्यध्वमसुरादनाः / / गरुडो बलवानेष मम तुल्यः स्वतेजसा // 8