________________ 1. 17. 24 ] आदिपर्व [1. 18. 11 मुहुर्मुहुः सुरगणमर्दयंस्तदा। महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह // 24 अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः / महाद्रयः प्रविगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥ 25 ततो मही प्रविचलिता सकानना ___महाद्रिपाताभिहता समन्ततः / परस्परं भृशमभिगर्जता मुहू __ रणाजिरे भृशमभिसंप्रवर्तिते // 26 नरस्ततो वरकनकाग्रभूषणै· महेषुभिर्गगनपथं समावृणोत् / विदारयनिगरिशिखराणि पत्रिभि'महाभयेऽसुरगणविग्रहे तदा // 27 ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः / वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य च // 28 ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः / विनाद्य खं दिवमपि चैव सर्वश स्ततो गताः सलिलधरा यथागतम् // 29 ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम् / * ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह // 30 व श्रीमहाभारते आदिपर्वणि सप्तदशोऽध्यायः // 17 // सूत उवाच। एतत्ते सर्वमाख्यातममृतं मथितं यथा / यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः // 1 यं निशाम्य तदा कर्विनतामिदमब्रवीत् / उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् // 2 विनतोवाच / श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे / हि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे // 3 कद्रुवाच / कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते / एहि सार्धं मया दीव्य दासीभावाय भामिनि // 4 सूत उवाच। एवं ते समयं कृत्वा दासीभावाय वै मिथः / जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह / / 5 ततः पुत्रसहस्रं तु कद्रूर्जिलं चिकीर्षती / आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः // 6 आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा / तद्वाक्यं नान्वपद्यन्त ताशशाप भजंगमान् // 7 सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति / जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः // 8 शापमेनं तु शुश्राव स्वयमेव पितामहः / अतिक्रूरं समुद्दिष्टं कट्ठा दैवादतीव हि // 9 साधं देवगणैः सर्वैर्वाचं तामन्यमोदत / बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया // 10 तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः / तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै / प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने // 11 इति श्रीमहाभारते आदिपर्वणि अष्टादशोऽध्यायः // 18 //