________________ 2. 72. 25] सभापर्व [2. 72. 36 वरं ददानि कृष्णायै काङ्कितं यद्यदिच्छति // 25 अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः। सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् // 26 अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् / एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता // 27 एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा। पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति // 28 / तस्याः पार्थाः परिक्लेशं न ऑस्यन्तेऽत्यमर्षणाः। वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः॥ तेन सत्यामिसंधेन वासुदेवेन रक्षिताः / आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः॥३० तेषां मध्ये महेष्वासो भीमसेनो महाबलः / आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः॥ 31 ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः / गदावेगं च भीमस्य नालं सोढुं नराधिपाः // 32 तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः / कुरुभ्यो हि सदा मन्ये पाण्डवाशक्तिमत्तरान् / तथा हि बलवानराजा जरासंधो महाद्युतिः / बाहुप्रहरणेनैव भीमेन निहतो युधि // 34 तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ / उभयोः पक्षयोयुक्तं क्रियतामविशङ्कया // 35 एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः / उक्तवान्न गृहीतं च मया पुत्रहितेप्सया // 36 इति श्रीमहाभारते सभापर्वणि द्विसप्ततितमोऽध्यायः // 72 // // समाप्तमनुद्यूतपर्व // // समाप्तं सभापर्व // म. भा. 49 -985