________________ 2. 60. 32] समापर्व [2. 60. 48 ध्रुवं तवेदं मतमन्वपद्यन् // 32 धिगस्तु नष्टः खलु भारतानां ... धर्मस्तथा क्षत्रविदां च वृत्तम् / यत्राभ्यतीतां कुरुधर्मवेलां ... प्रेक्षन्ति सर्वे कुरवः सभायाम् // 33 द्रोणस्य भीष्मस्य च नास्ति सत्त्वं .... ध्रुवं तथैवास्य महात्मनोऽपि / राज्ञस्तथा हीममधर्ममुग्रं न लक्षयन्ते कुरुवृद्धमुख्याः // 34 . तथा ब्रुवन्ती करुणं सुमध्यमा ___ काक्षेण भर्तृन्कुपितानपश्यत् / सा पाण्डवान्कोपपरीतदेहा- न्संदीपयामास कटाक्षपातैः // 35 हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव / यथार्तया कोपसमीरितेन - कृष्णाकटाक्षेण बभूव दुःखम् // 36 दुःशासनश्चापि समीक्ष्य कृष्णा मवेक्षमाणां कृपणान्पतींस्तान्। आधूय वेगेन विसंज्ञकल्पा मुवाच दासीति हसन्निवोनः // 37 कर्णस्तु तद्वाक्यमतीव हृष्टः संपूजयामास हसन्सशब्दम् / गान्धारराजः सुबलस्य पुत्र. स्तथैव दुःशासनमभ्यनन्दत् // 38 सभ्यास्तु ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रण चैव / तेषामभूदुःखमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम् / / 39 . / - 367 भीष्म उवाच। न धर्मसौक्ष्म्यात्सुभगे विवक्तुं ___ शक्नोमि ते प्रश्नमिमं यथावत् / अस्वो ह्यशक्तः पणितुं परस्वं स्त्रियश्च भर्तुर्वशतां समीक्ष्य // 40 त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरः सत्यमथो न जह्यात् / उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत् // 41 .. यतेऽद्वितीयः शकुनि रेषु कुन्तीसुतस्तेन निसृष्टकामः / न मन्यते तां निकृतिं महात्मा तस्मान्न ते प्रश्नमिमं ब्रवीमि // 42 / द्रौपधुवाच / आहूय राजा कुशलैः सभायां __ दुष्टात्मभिनॆकृतिकैरनार्यैः / तप्रियैर्नातिकृतप्रयत्नः _कस्मादयं नाम निसृष्टकामः॥ 43 स शुद्धभावो निकृतिप्रवृत्ति मबुध्यमानः कुरुपाण्डवाय्यः। संभूय सर्वैश्च जितोऽपि यस्मा त्पश्चाच्च यत्कैतवमभ्युपेतः / / 44 तिष्ठन्ति चेमे कुरवः सभाया मीशाः सुतानां च तथा स्नुषाणाम् / समीक्ष्य सर्वे मम चापि वाक्यं विब्रूत मे प्रश्नमिमं यथावत् // 45 .. वैशंपायन उवाच। तथा ब्रुवन्तीं करुणं रुदन्ती मवेक्षमाणामसकृत्पतींस्तान्। दुःशासनः परुषाण्यप्रियाणि -