________________ अथ न्यायभाष्यप्रथमाध्यायस्य द्वितीयमाह्निकम् तिस्रः कथा भवन्ति वादो जल्पो वितण्डा चेति. तासाम् प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चा वयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः // 1 // एकाधिकरणस्थौ विरुद्धौ धौ पक्षप्रतिपक्षौ- प्रत्यनीकभावात्- अस्त्यात्मा नास्त्यात्मेति / नानाधिकरणस्थौ विरुद्धौ न पक्षप्रतिपक्षौ यथा नित्य आत्मा. अनित्या बुद्धिरिति / परिग्रहः = अभ्युपगमव्यवस्था, सोयं पक्षप्रतिपक्षपरिग्रहो वादः, तस्य विशेषणम्- प्रमाणतर्कसाधनोपालम्भः= प्रमाणैस्तर्केण च साधनमुपालम्भश्चास्मिन् क्रियते इति / साधनम्= स्थापना. उपालम्भः प्रतिषेधस्तो साधनोपालम्भो उभयोरपि पक्षयोव्येतिषक्तौ= अनुबद्धौ यावदेको निवृत्त एकतरो व्यवस्थित इति, निवृत्तस्योपालम्भः व्यवस्थितस्य साधनमिति / वादलक्षणमवतारयति- तिस्र इति, अत्र-"नानाप्रवक्तृके विचारे वसति तद्विचारवस्तु विचारविषया वाक्यसंदृब्धिः कथेति यावत् तस्यां कथायामेष नियमस्तिस्र एवेति" इति तात्पर्यटीका / तासाम् वादजल्पवितण्डानां मध्ये वादो निरूप्यते इत्यन्वयः / प्रमाणेति-प्रमाणतर्काभ्यामेव साधनम्= स्वपक्षस्थापनम् उपालम्भः= परपक्षप्रतिषेधो यस्मिन् स प्रमाणतर्कसाधनोपालम्भः, किं वा प्रमाणैः साधनं तर्केण चोपालम्भो यस्मिन् स इत्येवमन्वयः, तदनेन विशेषणेन जल्पवितण्डाभ्यां वादस्य व्यावृत्तिः सिद्धा- जल्पवितण्डयोः प्रमाणाभासैस्तर्काभासैरपि च साधनोपालम्भयोः संभवात् / सिद्धान्ताविरुद्धः= सिद्धान्तानुकूलः प्रतिज्ञायुक्तपञ्चावयवसंपन्न एवम्भूतो यः पक्षप्रतिपक्षयोर्वादिप्रतिवादिभ्यां परिग्रहः स वाद इति सूत्रान्वयः / व्याचष्टे- एकेति, एकाधिकरणस्थौ= एकविषयको यौ विरुद्धौ धर्मों तौ पक्षप्रतिपक्षावित्युच्येते- प्रत्यनीकभावात्= परस्परविरुद्धत्वात् पक्षस्य प्रत्यनीकः (विरुद्धः) प्रतिपक्ष इत्यर्थः यथा- 'अस्त्यात्मा' 'नास्त्यात्मा' इति पक्षप्रतिपक्षौ- एकस्यैवात्मनः परस्परविरुद्धयोर्भावाभावयोः प्रतिपादकत्वात् एतादृशपक्षप्रतिपक्षयोः परिग्रहो वाद इत्यर्थः / प्रत्युदाहरणमाह- नानेति, नानाधिकरणस्थौ भिन्नविषयको विरुद्धावपि धर्मों पक्षप्रतिपक्षौ न भवतो यथा-'नित्य आत्मा' 'अनित्याबुद्धिः' इति- आत्मनित्यत्वेन बुद्धयनित्यत्वस्य विरोधाभावात् / नित्यत्वानित्यत्वयोः सामान्यतः परस्परं विरोधाद् विरुद्धावित्युक्तं स च विरोधो विषयभेदेन वितर्तते इति तत्र पक्षप्रतिपक्षत्वयोरपि निवृत्तिर्भवति / परिग्रहपदार्थमाह- परिग्रह इति, अभ्युपगमस्य= स्वीकारस्य व्यवस्था यथा वादिप्रतिवादिनोमध्ये एकेनात्मनो नित्यत्वं परेण चानित्यत्वं स्वीकार्य एवमेव वादसंभवात् / उपसंहरति- सोयमिति, उक्तलक्षणयोः पक्षप्रतिपक्षयोरुक्तलक्षणो यः परिग्रहः स वाद इत्यन्वयः। वादविशेषणमाह- तस्येति, तस्य= वादस्य प्रमाणतर्कसाधनोपालम्भ इति विशेषणम्, व्युत्पत्तिमाह-प्रमाणैरिति, स प्रमाणतर्कसाधनोपालम्भ इतिशेषः / साधनपदार्थमाह- साधनमिति, स्थापना स्वपक्षस्थापना, उपालम्भपदार्थमाहउपालम्भ इति, प्रतिषेधः= परपक्षखण्डनम् / ताविति-तौ साधनोपालम्भौ उभयोरपि वादिप्रतिवादिनोः पक्षयोय॑तिषक्तौ= संबद्धौ भवतस्तथा च वादिनापि स्वपक्षस्थापनं प्रतिवादिपक्षखण्डनं च कर्तव्यं प्रतिवादिनापि स्वपक्षस्थापनं वादिपक्षखण्डनं च कर्तव्यमित्यर्थः / साधनोपालम्भयोरवधिमाह- यावदिति, एकः पक्षः किं वा वादिप्रतिवादिनोर्मध्ये एकः / निवृत्तः= परास्तों न भवति एकतरश्च व्यवस्थितः=. सिद्धो न भवति यावत् तावत् साधनोपालम्भौ प्रवर्तेते इत्यर्थः। फलमाह- निवृत्तस्येति, निवृत्तस्य=