________________ वादलक्षणम् ] न्यायभाष्यम्। जल्पे निग्रहस्थानविनियोगाद् वादे तत्प्रतिषेधः / प्रतिषेधे कस्यचिदभ्यनुज्ञानार्य सिद्धान्ताऽविरुद्ध इतिवचनम् / सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति हेत्वाभासस्य निग्रहस्थानस्याऽभ्यनुज्ञा वादे। पञ्चावयवोपपन्न इति- " हीनमन्यतमेनाप्यवयवेन न्यूनम् 5-2-12 " " हेतूदाहरणाधिकमधिकम् 5-2-13" इति चैतयोरभ्यनुज्ञानार्थमिति / अवयवेषु प्रमाणतर्कान्तर्भावे पृथक् प्रमाणतर्कग्रहणं साधनोपालम्भव्यतिषङ्गज्ञापनार्थम् अन्यथोभावपि पक्षौ स्थापनाहेतुना प्रवृत्तौ वाद इति स्यात् / अन्तरेणापि चावयवसंबन्धं प्रमाणान्यर्थ साधयन्तीति दृष्टं तेनापि कल्पेन वादपराङ्मुस्य, उपालम्भः= पराजयः, विज्ञेय इतिशेषः / साधनम्= सिद्धिः= जयः / जल्पापेक्षया वादस्य विशेषमाह- जल्पेति, तदेतदग्रिमसूत्रे स्पष्टम् , तत्प्रतिषेधः= निग्रहस्थानविनियोगाभावो वादे विज्ञेय इतिविशेषः / द्वितीयविशेषणसार्थक्यामाह- प्रतिषेधे इति, परपक्षप्रतिषेधस्थले कस्यचित्स्वीकार आवश्यक एव- परपक्षप्रतिकूलपक्षस्वीकारं विना परपक्षप्रतिषेधासंभवादिति वादे कस्य चिदर्थस्य स्वीकारार्थमेव सिद्धान्ताविरुद्ध इतिवचनम्= विशेषणम् / हेत्वाभासलक्षणनिग्रहस्थानस्य वादे विनियोगमाहसिद्धान्तमिति, कंचित् सिद्धान्तं स्वीकृत्यैव तद्विरोधी हेतुर्विरुद्ध इतिवक्तुं शक्यते तथा च सिद्धान्ताविरुद्ध इत्येन वादे सिद्धान्तविरुद्धस्य प्रत्याख्यानं प्राप्तं तच्च प्रत्याख्यानं प्रतिवादिना विरुद्धस्य प्रयोगे कृते एव संभवतीति वादे विरुद्धस्याभ्यनुज्ञा प्राप्ता विरुद्धसादृश्याच्चान्येषामपि हेत्वाभासानामनुज्ञा प्राप्ता तत्र हेत्वाभासानां निग्रहस्थानेष्वेव गणनास्ति निग्रहस्थानानां च वादे प्रतिषेध उक्त इति हेत्वाभासा. तिरिक्तानामेव निग्रहस्थानानां वादे प्रतिषेधो विज्ञेय इतिपर्यवसितमित्यर्थः / तृतीयविशेषणस्य सार्थक्यमाह-पञ्चेति, प्रतिज्ञादिपञ्चावयवयुक्तो वादो भवतीति सूत्रेऽन्वयस्तत्र पञ्चत्वस्याविवक्षयाऽवयवानां न्यूनत्वमाधिक्यं च संभवति तन्न कर्तव्यम्- न्यूनत्वाधिक्ययोनिग्रहस्थानरूपत्वात् तथा चात्रावयवानां पञ्चत्वसंख्याया विवक्षितत्वात् “पञ्चावयवोपपन्नः" इति वचनमवयवानां न्यूनत्वे न्यूनस्याऽऽधिक्ये चाधिकस्याभ्यनुज्ञानार्थम्= निग्रहस्थानत्वसिद्धयर्थमेव बोध्यमित्यर्थः / न्यूनलक्षणमाह- हीनमिति, अधिकलक्षणमाह- हेत्विति / अवयवेष्विति-वादे हि विशेषतोऽनुमानप्रमाणस्यैव प्रसारो भवति अवयवाश्चानुमानावयवा एव तथा च प्रमाणतर्कयोरवयवेष्वन्तर्भावः प्राप्तः- अनुमानेन तदापेक्षिततर्कस्यापि प्राप्तेरिति पञ्चावयवोपपन्न इत्यनेनैव वादे प्रमाणतर्कयोर्लामे सिद्धेपि पृथक प्रमाणतर्कग्रहणं साधनोपालम्भव्यतिषमज्ञापनार्थम्= उभयोरपि साधनोपालम्भयोर्वादे व्यतिषड्नस्य= संबधनियमस्य ज्ञापनार्थमित्यर्थः, अत्र-"पञ्चावयवोपपन्न इत्यनेनैव प्रमाणतर्कसाधनोपालम्भत्वलाभे सिद्धे पुनरुपादानं प्रमाणैः साधनमेव कार्य तर्केणोपालम्भ एव कार्य इतिबोधनार्थम्" इति श्रीगुरुचरणाः / विपक्षे बाधकमाह- अन्यथेति, अन्यथा उक्तनियमाभावे उभावपि पक्षौ= वादिप्रतिवादिपक्षौ स्थापनाहेतुना= स्वपक्षस्थापनामात्रेण प्रवृत्तौ सन्तौ वादसंज्ञां लभेतां न चैवमस्तीति प्रमाणेन साधनं तर्केण चोपालम्भ इति व्यवस्था विज्ञेया, अत्र-" अन्यथैकः स्वस्थानस्थित एव शब्दस्यानित्यत्वं प्रति पञ्चावयवोपपन्नं वाक्यं प्रयुङ्क्ते अपरोपि तादृशः शब्दनित्यतां प्रति तादृशमेव वाक्यं प्रयुङ्क्ते इति सोपि वादः प्रसज्येत, साधनोपालम्भविशेषणाय च प्रमाणतर्कग्रहणं कर्तव्यमितिभावः" इति तात्पर्यटीका, स्वपक्षसाधनमात्रस्य परपक्षखण्डनमात्रस्य वा वादत्वं न प्राप्नुयादिति हेतोः पृथक्प्रमाणतर्कग्रहणं कृतं तथा चावयवपञ्चकेन प्रमाणतर्काभ्यां च साध्यं पृथक् पृथवेगेति प्राप्तं तत्र स्वपक्षसाधनं परपक्षखण्डनं चेत्त्युभयास्मकस्यैव वादत्वं सिद्धं न तु स्वपक्षसाधनमात्रस्य वा परपक्षखण्डनमात्रस्य वा, अन्यथा पृथक् प्रमाणतर्कग्रहणमनर्थकं स्यादित्याशयः / पृथक् प्रमाणतर्कग्रहणस्य प्रयोजनान्तरमप्याह- अन्तरेणेति, अवयवप्रयोगं विनापि प्रमाणैरर्थसिद्धिर्भवत्येवेति तेनापि कल्पेन= अवयवनिरमेक्षैरपि प्रमाणैरर्थसाधनप्रका