________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. २आह्निकेसाधनोपालम्भौ वादे भवत इति ज्ञापयति / “छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः 2" इतिवचनाद विनिग्रहो वाद इति मा विज्ञायि= छलजातिनिग्रहस्थानसाधनोपालम्भ एव जल्पः प्रमाणतर्कसाधनोपालम्भो वाद एवेति मा विज्ञायीत्येवमर्थ पृथक् प्रमाणतर्कग्रहणम् // 1 // यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनो पालम्भो जल्पः // 2 // यथोक्तोपपन्न इति प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः / छलजातिनिग्रहस्थानसाधनोपालम्भ इति- छलजातिनिग्रहस्थानैः साधनमुपालम्भश्चास्मिन् क्रियते इत्येवंविशेषणो जल्पः। न खलु वै छलजातिनिग्रहस्थानैः साधनं कस्यचिदर्थस्य संभवति-प्रतिषेधार्थतैवैषां सामान्यलक्षणे विशेषलक्षणे च श्रूयते- " वचनविघातोऽर्थविकल्पोपपत्त्या छलम् 1-2-10" रेण= अवयवप्रयोगरहितैरपि प्रमाणैः साधनोपालम्भौ वादे भवत इति पृथक् प्रमाणतर्कग्रहणेन सूत्रकारो विज्ञापयति / पृथक् प्रमाणतर्कग्रहणस्य प्रयोजनान्तरमाह-छलेति, "छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः " इत्यग्रिमसूत्रवाक्याद् विनिग्रहः= निग्रहस्थानै रहितो वाद इति मा विज्ञायि किं तु निग्रहस्थानानां वादेपि प्रयोगो भवत्येवेत्यर्थः, अत्र "विनिग्रहो जल्पः” इतिपाठस्त्वसंगतो भाति, स्वोक्तमेव व्याचष्टे- छलजातीति, छलजातिनिग्रहस्थानानां वादे प्रमाणतर्कयोश्च जल्पे प्रयोगो न भवतीति न विज्ञेयं किं तूभयत्रैव भवतीत्यर्थः तदेतत् पृथक् प्रमाणतर्कग्रहणेन लभ्यते इत्यन्वयः, लाभप्रकारं चैनं भाष्यकार एव ज्ञातवान् / किं वा परेण प्रयुक्तानां छलजातिनिग्रहस्थानानां परिहारार्थमेव विशेषतस्तकापेक्षा जायते इति पञ्चावयवापेक्षया पृथगपि प्रमाणतर्कग्रहणेन वादजल्पयोरुभयोरपि छलजातिनिग्रहस्थानानामभ्यनुज्ञा प्राप्ता / किं वा पञ्चावयवग्रहणेनैव प्रमाणतौं लब्धाविति पृथक् प्रमाणत ग्रहणं स्वस फल्याथ वादजल्पयोरुभयोरपि छलजातिनिग्रहस्थानानां प्रयोगं द्योतयति तथा च स्वपलस्थापनं पञ्चभिरवयवैः कर्तव्यं परप्रयक्तछलादीनां निरासश्च प्रमाणतर्काभ्यां कर्तव्य इत्याशयः प्रतीयते अन्यत्तु नावधारयामीत्यलम् / वस्तुतस्त्वेवं संकरेण वादजल्पयोः पार्थक्यं न संभवतीति प्रमादेनैवेदमुपपादयति भाष्यकारोयं कामशास्त्रपरायणत्वात् यतः कामसूत्रनिर्मातायमिति क्षन्तव्यम् / अत्र- "प्रयोजनान्तरमन्वाचिनोति-छलजातीति, विनिग्रहो जल्पो मा विज्ञायि= वादगतनिग्रहस्थानरहितो मा विज्ञायीत्यर्थः, तद्विज्ञाने कीदृशोथों भवतीत्याह- छलजातिनिग्रहस्थानेति, वादगतो निग्रहो न जल्पे जल्पगतश्च निग्रहो न वादे इति मा विज्ञायि, सोयमिष्टोों प्रमाणतर्कग्रहणाल्लभ्यते” इतितात्पर्यटीका // 1 // जल्पं लक्षयति- यथोक्तिति, यथोक्तोपपन्नः= वादविशेषणैर्युक्तः, तथा च प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः छलजातिनिग्रहस्थानोपालम्भश्च पक्षप्रतिपक्षपरिग्रहो जल्प इत्यन्वयः, किं वा प्रमाणतर्कछलजातिनिग्रहस्थानोपालम्भ इत्येवमन्वयः कर्तव्यः, अर्थश्च पूर्ववदेव व्याख्येयः / व्याचष्टे- यथेति / यथोक्तोपपन्नपदग्राह्य पदार्थचतुष्टयमाह- प्रमाणेत्यादिना / छलजातीतिविशेषणव्युत्पत्तिमाह- छलजातीति, स्पष्टं सर्वम् / अत्र- " जल्पे प्रमाणादीनां प्रयोगेपि प्रमाणेनैव साधनं तर्केणैवोपालम्भ इतिनियमाभावाद् नैतल्लक्षणस्य वादेतिव्याप्तिः" इति श्रीगुरुचरणाः / सूत्रकाराशयेन तु छलजातिनिग्रहस्थानानां जल्पे एव विनियोगो न वादे इतिसिध्यति तेन वादजल्पयोर्भेदोपि सिध्यतीति विभावनीयम् / . छलजातिनिग्रहस्थानैः खण्डनमेव संभवति न कस्यचिन्मण्डनमपीति कथं सूत्रे छलजातिनिग्रहस्थानैः साधनमुक्तमित्याशक्य समाधानाय पूर्वपक्षमाह- न खल्विति। एषाम्= छल जातिनिग्रह