________________ जल्पलक्षणम् ] न्यायभाष्यम् / "साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः 1-2-18" " विप्रतिपत्तिरपतिपत्तिश्च निग्रहस्थानम् 1-2-19" इति, विशेषलक्षणेष्वपि यथास्वमिति ? / न चैतद्विजानीयात्- प्रतिषेधार्थतयैवार्थ साधयन्तीति, 'छलजातिनिग्रहस्थानोपालम्भो जल्पः' इत्येवमप्युच्यमाने विज्ञायते एतदिति- प्रमाणैः साधनोपालम्भयोश्छलजातिनिग्रहस्थानानामङ्गभावः स्वपक्षरक्षणार्थत्वात् न स्वतन्त्राणां साधनभावः= यत्तत् प्रमाणैरर्थस्य साधनं तत्र छलजातिनिग्रहस्थानानामङ्गभावो रक्षणार्थत्वात्- तानि हि प्रयुज्यमानानि परपक्षविघातेन स्वपक्षं रक्षन्ति तथा चोक्तम्- "तत्त्वाध्यवसायसंरक्षणार्थ जल्पवितण्डे बीजप्ररोहरक्षणार्थ कण्टकशाखावरणवत् 4-2-50" इति, यश्चासौ प्रमाणैः प्रतिपक्षस्योपालम्भस्तस्य चैतानि प्रयुज्यमानानि प्रतिषेधविघातसहकारीणि भवन्ति. तदेवमङ्गीभूतानां छलादीनामुपादानं जल्पे न स्वतन्त्राणां साधनभावः. उपालम्भे तु स्वातन्त्र्यमप्यस्तीति // 2 // स्थानानाम् / छलस्य सामान्य लक्षणमाह- वचनेति / जातेः सामान्य लक्षणमाह- साधम्र्येति / निग्रहस्थानस्य सामान्य लक्षणमाह- विप्रतिपत्तिरिति / अर्थश्चैषामने भाष्ये एव द्रष्टव्यः / विशेषलक्षणानि तु छलस्य प्रथमाध्यायद्वितीयाह्निके जातेश्च पञ्चमाध्यायप्रथमाह्निके निग्रहस्थानस्यच पञ्चमाध्यायद्वितीयाह्निके द्रष्टव्यानि, छलजातिनिग्रहस्थानानां विशेषलक्षणेष्वपि यथास्वम्= तत्तलक्षणवाक्यानुसारेण प्रतिषेधार्थतैव विज्ञायते न साधकत्वमित्यन्वयः / उक्तं परिहरति- न चेति, छलजातिनिग्रहस्थानानि अर्थम्= स्वपक्षं प्रतिषेधार्थतयैव= परपक्षप्रतिषेधमुखेनैव साधयन्तीत्येतद् न विजानीयादित्यर्थमेव सूत्रे "छलजातिनिग्रहस्थानसाधनोपालम्भः" इत्युक्तं तदनेन वचनेन छलजातिनिग्रहस्थानानामपि स्वपक्षसाधनत्वमपि प्राप्तमित्यर्थः / स्वाभिप्रायमुद्घाटयति- छलजातीति, " छलजातिनिग्रहस्थानोपालम्भः " इत्यत्र 'छलजातिनिग्रहस्थानसाधनोपालम्भः' इत्येवं पाठो युक्तः- सूत्रानुसारात् / “छलजातिनिग्रहस्था. नसाधनोपालम्भो जल्पः' इत्युच्यमाने यद्विज्ञायते तदाह-प्रमाणैरिति, प्रमाणैः साधने उपालम्भे च क्रियमाणे छलजातिनिग्रहस्थानानां स्वपक्षरक्षणार्थत्वात्= स्वपक्षरक्षकत्वात् अङ्गभावः= अङ्गत्वम्= सहकारित्वं भवति. स्वतन्त्राणाम्= प्रमाणनिरपेक्षाणां साधनभावः= साधनत्वं= स्वपक्षसाधकत्वं न संभवति. तथा च छलजातिनिग्रहस्थानानां प्रमाणाङ्गत्वेन स्वपक्षरक्षकत्वे प्राप्ते प्रतिषेधमुखेनैवार्थसाधकत्वमिति नियमो नोपपद्यते इत्यर्थः / स्वोक्तमेव व्याचष्टे- यत्तदिति, अर्थस्य= स्वपक्षस्य, तत्र= स्वपक्षसाधने, अङ्गभावः सहकारित्वम् , रक्षणार्थत्वात् स्वपक्षरक्षकत्वात् / उक्ते हेतुमाह- तानीति, तानि= छलजातिनिग्रहस्थानानि, परपक्षखण्डनं हि स्वपक्षरक्षणार्थमेव भवतीति परपक्षखण्डनद्वारा छलजातिनिग्रहस्थानानां स्वपक्षरक्षकत्वमपि सिद्धम् , परपक्षविघातेन= परपक्षखण्डनद्वारा / उक्ते चतुर्थाध्यायसूत्रं प्रमाणयतितत्त्वेति, यथा शस्यस्थानपरितः कण्टकशारवाभिरावरणं बीजप्ररोहस्य= बीजाङ्करस्य शस्यस्य रक्षणार्थ भवति तथा जल्पवितण्डे अपि तत्त्वाध्यवसायस्य= स्वसिद्धान्तस्य रक्षणार्थं भवत इति सूत्रार्थः, छलजातिनिग्रहस्थानप्रधानयोर्जल्पवितण्डयोः स्वपक्षरक्षकत्ववचनात् प्राप्ताप्राप्तविवेकन्यायेन छलजातिनिग्रहस्थानानामेवं स्वपक्षरक्षकत्वमपि सिद्धं तच्च परपक्षप्रतिषेधमुखेनेत्यर्थः / सूत्राभिप्रायमाह- यश्चेति, उपालम्भःखण्डनं क्रियते तस्य= परपक्षखण्डनस्य= परपक्षखण्डनार्थं चैतानि= छलजातिनिग्रहस्थानानि प्रयुज्यमानानि प्रतिषेधस्य= स्वपक्षप्रतिषेधरूपस्य परपक्षस्य विघातेन प्रमाणानां सहकारीणि भवन्ति / उपसंहरति- तदेवमिति, एवम्= उक्तप्रकारेण जल्पे छलादीनां यदुपादानम्= प्रयोग: सोऽङ्गीभूतानाम प्रमाणाङ्गत्वेनैव भवति. स्वतन्त्राणाम्= प्रमाणनिरपेक्षाणां तु छलजातिनिग्रहस्थानानां साधनभावः स्वपक्षसाधकत्वं न भवति. उपालम्भे= परपक्षखण्डने तु स्वातन्त्र्यमप्यस्त्येव= छलजातिनिग्रहस्थानान प्रमाणनिरपेक्षाणामपि परपक्षविघातकत्वं तूपपद्यते- परपक्षप्रतिघातार्थमेव कल्पितत्वादित्यन्वयः // 2 //