________________ प्रसन्नपदापरिभूषितम्- [१अध्याये. २आह्निकेस प्रतिपक्षस्थापनाहीनो वितण्डा // 3 // सः= जल्पो वितण्डा भवति, किंविशेषणः 1. प्रतिपक्षस्थापनया हीनः= यौ तौ समानाधिकरणौ विरुद्धौ धौं पक्षप्रतिपक्षावित्युक्तं तयोरेकतरं वैतण्डिको न स्थापयतीति. परपक्षप्रतिषेधेनैव प्रवर्तते इति / अस्तु तर्हि ‘स प्रतिपक्षहीनो वितण्डा' ? / यद्वै खलु तत् परपतिपेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः, न त्वसौ साध्यं कंचिदर्थं प्रतिज्ञाय स्थापयतीति तस्माद् यथान्यासमेवास्त्विति // 3 // हेतुलक्षणाभावादहेतवो हेतुसामान्याद् हेतुवदाभासमानाः, ते इमे संव्यभिचार-विरुद्ध प्रकरणसम-साँध्यसम कालातीता हेत्वाभासाः // 4 // वितण्डां लक्षयति- स इति, सः= जल्प एव प्रतिपक्षस्थापनाहीनः= स्वपक्षस्थापनाहीनः= परपक्षखण्डनमात्रपरः सन् वितण्डेत्युच्यते तथा च प्रमाणतर्काभ्यां पञ्चभिरवयवैः छलजातिनिग्रहस्थानैश्च यत् परपक्षखण्डनमात्रं क्रियते स्वपक्षश्च न स्थाप्यते सा वितण्डेत्यन्वयः, परपक्षस्य स्वपक्ष एव प्रतिपक्षो भवतीति सूत्रे प्रतिपक्षशब्देन स्वपक्ष एव ग्राह्यस्तदेतद् भाष्येण स्पष्टमिति सूत्रार्थः / व्याचष्टे-स इति / किंविशेषणः= केन विशेषेण विशिष्टः सन् जल्पो वितण्डा भवतीति जिज्ञासतेकिमिति / उत्तरमाह- प्रतिपक्षेति, प्रतिपक्षस्थापनया= स्वपक्षस्थापनया / स्वाभिप्राय विशदयतियाविति, पक्षप्रतिपक्षयोः स्वरूपं चैतद्वादलक्षणभाष्ये स्पष्टमुपपादितम् / तयोः= पक्षप्रतिपक्षयोर्मध्ये एकतरम्= स्वपक्षं वा प्रतिपक्षभूतं परपक्षं वा वैतण्डिकः= वितण्डया प्रवृत्तो न स्थापयति किं तु परपक्षप्रतिषेधेनैव प्रवर्तते= परपक्षखण्डनमानं करोति अत एव स वैतण्डिक इत्युच्यते- स्वपक्षस्थापनाहीनस्य परपक्षखण्डनमात्रस्य वितण्डापदवाच्यत्वादित्यन्वयः / ननु स्वपक्षस्य स्थापनाभावेनाऽभाव एव प्राप्तस्तथा च 'प्रतिपक्षहीनः= स्वपक्षहीनः सन् सः= जल्पो वितण्डा', इत्येव वितण्डालक्षणं किं न क्रियते इत्याशङ्कते- अस्त्विति / उत्तरमाह- यद्वै इति, वैतण्डिकस्य स्वपक्षाभावो नास्तिक्रियमाणस्यैव स्वपक्षत्वात् तथा च परप्रतिषेधलक्षणं वाक्यम्= परपक्षखण्डनमेव वैतण्डिकस्य पक्षोस्तीति तादृशपक्षसत्त्वात् ‘स प्रतिपक्षहीनो वितण्डा' इत्येवं वितण्डालक्षणं नोपपद्यते / असौ= वैतण्डिक: साध्यं कमप्यर्थ प्रतिज्ञाय न स्थापयतीति 'प्रतिपक्षस्थापनाहीनो जल्पो वितण्डाः' इत्येव सूत्रोक्तं लक्षणं संभवतीत्युपसंहरति- तस्मादिति, यथान्यासम्= सूत्रानुसारेणैव लक्षणमस्तु= युक्तम्- " स प्रतिपक्षस्थापनाहीनो वितण्डा" इति इत्यर्थः // 3 // हेत्वाभासनिरूपणमारभते- हेतुलक्षणेति, हेतुलक्षणस्य= साध्यव्याप्यत्त्वस्य अभावात् हेत्वाभासा अहेतवः, हेतुसामान्यात्= हेतुसादृश्यात् : सादृश्यं च हेतुत्वबोधकविभक्त्यन्तपदप्रतिपाद्यत्वं यथा 'वह्निमान् धूमात्' इत्यत्र धूमपदप्रयोगस्तथैव 'धूमवान् वह्नेः' इत्यत्र वह्निपदप्रयोगाद् वढेहेतुत्वं प्रतीयते वस्तुतस्तु वढेधूमहेतुत्वं नास्ति-व्यभिचारित्वादिति पञ्चम्यन्तपदप्रतिपाद्यत्त्वाद्वह्निर्हेतुवदाभासते इति हेत्वाभासः / हेतुसामान्याद् हेतुवदाभासमाना हेत्वाभासा हेतुलक्षणाभावात्= हेतुलक्षणानाक्राम्तत्वादहेतव इत्यन्वयः / सामान्यलक्षणं च यद्विषयकत्वेन ज्ञानस्यानुमितिविरोधित्त्वं तत्त्वं हेत्वाभासस्वमिति, हेत्वाभासत्वविषयकज्ञानस्यानुमितिविरोधित्वं च स्पष्टमेवेत्यलम् / हेत्वाभासविभागसूत्रमवतारयति- ते इति, ते इमे हेत्वाभासाः पञ्चविधा इत्यर्थः / सव्यभिचारो विरुद्धः प्रकरणसमः साध्यसमः कालातीत इति पञ्चविधा हेत्वाभासा इति सूत्रान्वयः // 4 //