________________ हेत्वाभासा:] न्यायभाष्यम्। तेषाम् अनैकान्तिकः सव्यभिचारः // 5 // व्यभिचारः= एकत्राऽव्यवस्था. सह व्यभिचारेण वर्तते इति सव्यभिचारः, निदर्शनम्-नित्यः शब्दोऽस्पर्शत्वात्. स्पर्शवान् कुम्भोऽनित्यो दृष्टो न च तथा स्पर्शवान् शब्दस्तस्माद् अस्पर्शत्वात् नित्यः शब्द इति / दृष्टान्ते स्पर्शवत्वमनित्यत्वं च धर्मों न साध्यसाधनभूतौ दृश्येते- स्पर्शवांश्चाऽणुनित्यश्चेति / आत्मादौ च दृष्टान्ते " उदाहरणसाधात् साध्यसाधनं हेतुः१-१-३४" इति. अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति- अस्पर्शा बुद्धिरनित्या चेति, एवं द्विविधेपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणाभावादहेतुरिति / नित्यत्वमप्येकोऽन्तः अनित्यत्वमप्येकोऽन्तः एकस्मिन्नन्ते विद्यते इत्यैकान्तिको विपर्ययादऽनैकान्तिकः- उभयान्तव्यापकत्वादिति // 5 // हेत्वाभासानां विशेषलक्षणान्यवतारयति- तेषामिति, तेषाम्= उक्तानां पञ्चविधानां हेत्वाभासानां मध्ये योऽनैकान्तिकः स सव्यभिचार इत्यर्थः / अनैकान्तिकः= व्यभिचारी हेतुर्व्यभिचारेण सह वर्तमानत्वात्= व्यभिचारयुक्तत्वात् सव्यभिचार इत्युच्यते यथा धूमवान् वढेरिति धूमाभाववत्त्यनारशकटे वृत्तित्वाद्वहिधूमव्यभिचारीति सव्यभिचार इतिसूत्रान्वयः / व्याचष्टे-व्यभिचार इति, एकत्र= साध्यवति अव्यवस्था सत्त्वनियमाभावः यथा धूमवत्येव वह्निवर्तते इतिनियमो नास्ति, धूमश्च वह्निमत्येव वर्तते इति नियमोस्ति / सव्यभिचारशब्दस्य व्युत्पत्तिमाह-सहेति। सव्यभिचारमुदाहरति-नित्य इति, निदर्शनम् उदाहरणम् / अत्राऽस्पर्शत्वम्= स्पर्शरहितत्वं हेतुर्नित्यत्वव्यभिचारी विज्ञेयः- नित्यत्वरहितेपि ज्ञानादौ वृत्तित्वात् / पूर्वपक्षी अस्पर्शत्वस्य हेतोनित्यत्वसाधकत्वमुपपादयति- स्पर्शवानिति, नित्यत्वरहिते कुम्भादावस्पर्शत्वं नास्ति नित्ये चात्मादावस्तीति साध्यव्याप्यत्वं प्राप्तमित्यर्थः, तथा कुम्भादिवत् / उपसंहरति- तस्मादिति / उक्तं प्रत्याचष्टे- दृष्टान्ते इत्यादिना, दृष्टान्ते= व्यतिरेकदृष्टान्ते कुम्भे, अनित्यत्वं स्पर्शवत्त्वसाध्यं नास्तीत्यर्थः, धर्मों= अनित्यत्वस्पर्शवत्त्वे / स्पर्शवत्त्वस्यानित्यत्वासधकत्वप्रदर्शनार्थ व्यभिचारं प्रदर्शयति- स्पर्शवानिति, अणुः= परमाणुनित्योपि स्पर्शवानस्ति तथा चाऽनित्यत्वाभावबत्यपि परमाणौ वृत्तित्वात् स्पर्शवत्त्वमनित्यत्वव्यभिचारि जातमिति नाऽनित्यत्वसाधकं संभवतीत्यर्थः / अन्वयव्याप्तिं दूषयति- आत्मादाविति, आत्मादावन्वयिदृष्टान्तेपि च नित्यत्वाऽस्पर्शत्वयोः साध्यसाधनभावो न दृश्यते-- अस्पर्शत्वस्य नित्यत्वव्यभिचारित्वादित्यर्थः, भाष्यपाठस्तु विकल इव प्रतिभाति / हेतुस्वरूपमाह- उदाहरणेति, तदेतत् प्रथमाह्निकस्य चतुस्त्रिंशत्सूत्रे स्पष्टम् , अस्पर्शत्वस्य चात्मायुदा. हरणसाधात् नित्यत्वसाधकत्वं न संभवति- व्यभिचारित्वादित्यर्थः / किं वात्मादिदृष्टान्ते उदाहरणसाधात् साध्यसाधनं हेतुः= अस्पर्शत्वहेतोः शब्दनित्यत्वसाधकत्वमुच्यते तञ्च न संभवति बुद्धयादौ व्यभिचारादित्येवं व्याख्येयम् / व्यभिचारं प्रदर्शयति- अस्पर्शत्वादिति, नित्यत्वाभाववत्यामपि बुद्धौ वर्तमानत्वादस्पर्शत्वं नित्यत्वव्यभिचारि जातमिति शब्दनित्यत्वसाधकं न संभवतीत्यर्थः / उपसंहरतिएवमिति, एवम् उक्तरीत्या द्विविधेपि दृष्टान्ते= अन्वयिदृष्टान्ते व्यतिरेकिदृष्टान्ते च व्यभिचारात् नित्यत्वास्पर्शस्वयोःसाध्यसाधनभावो नास्तीति लक्षणाभावात्= साध्यव्याप्यत्वाभावादस्पर्शत्वमत्राऽहेतुःहेत्वाभास एव / यत्र यत्राऽस्पर्शत्वं तत्र तत्र नित्यत्वमित्यन्वयव्याप्तिरपि नास्ति-बुद्धौ व्यभिचारात् / यत्राऽस्पर्शत्वं नास्ति तत्र नित्यस्वमपि नास्तीति व्यतिरेकव्याप्तिरपि नास्ति-परमाणौ व्यभिचारादित्यस्पर्शत्वं नित्यत्वसाधकं न संभवतीत्यर्थः / व्यतिरेकव्याप्त्यभावश्चायं भाष्योक्तपरमाणुदृष्टान्तानुरोधेन प्रदर्शित इत्यनुसंधेयम् / किं वा यत्र नित्यत्वं नास्ति तत्राऽस्पर्शत्वं नास्तीति व्यतिरेकव्याप्तिास्तिबुद्धौ व्यभिचारात् / अनैकान्तिकशब्दस्य व्युत्पत्तिमाह-नित्यत्वमिति, अन्तः= कोटिः, प्रकृते इतिशेषः,