________________ प्रसन्नपदापरिभूषितम् / [1 अध्याये. २आह्निके-- सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः // 6 // तं विरुणद्धीति तद्विरोधी= अभ्युपेतं सिद्धान्तं व्याहन्तीति, यथा-सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात् , अपेतोप्यस्ति विनाशप्रतिषेधात् , न नित्यो विकार उपपद्यते इत्येवं हेतुः 'व्यक्तेरपेतोपि विकारोस्ति ' इत्यनेन स्वसिद्धान्तेन विरुध्यते / ___कथम् ?, व्यक्तिः आत्मलाभः अपायः= प्रच्युतिः. यद्यात्मलाभात् प्रच्युतो विकारोस्ति ? नित्यत्वप्रतिषेधो नोपपद्यते- यद् व्यक्तेरपेतस्यापि विकारस्याऽस्तित्वं तत् खलु नित्यत्वमिति, एकस्मिन्नन्ते= एककोटिविशिष्टे वर्वते इत्यैकान्तिकः= अव्यभिचारी. विपर्ययात्= तद्विपरीतः= ऐकान्तिकविपरीत:= व्यभिचारी हेतुरनैकान्तिक इत्युच्यते- उभयान्तव्यापकत्वात्= साध्यवति साध्याभाववति च वर्तमानत्वादेकान्तिकः= अव्यभिचारी न भवतीत्यर्थः / / 5 // ___ विरुद्धाख्यं हेत्वाभासं लक्षयति-सिद्धान्तमिति, न कश्चिदपि सर्वविरुद्धो भवतीत्यभिप्रायेण सिद्धान्तमित्युक्तम् , सिद्धान्तमभ्युपेत्य= यः सिद्धान्तोऽभ्युपेतस्तद्विरोधी हेतुर्विरुद्ध इत्युच्यते. साध्याभावव्याप्यो हेतुर्विरुद्ध इतियावत् यथा वह्निमान जलादित्यत्र जलं वह्नयभावव्याप्यत्वाद् वह्निविरुद्धम् / विशेषविवक्षायां चात्र सिद्धान्तपदेन साध्यं ग्राह्यं तथा च साध्यविरोधी विरुद्ध इतिसूत्रार्थः / व्याचष्टेतमिति, तम्= सिद्धान्तम्= साध्यम् , तदेतद् विरुद्धशब्दनिर्वचनम् / उक्तं व्याचष्टे- उभ्युपेतमिति, यो हेतुः स्वीकृतं सिद्धान्तं व्याहन्ति= साध्याभावापादको भवति स हेतुर्विरुद्ध इत्यन्वयः / उदाहरतिसोयमिति, सतोपि विकारस्य स्वरूपप्रच्युतिसाधनार्थ सांख्यानुमानमिदम् , अयम्= महत्तत्त्वादिलक्षणो विकारः= प्रकृतिविकारः व्यक्तेरपैति स्वरूपात् प्रच्युतो भवति= रूपान्तरेण परिणमते इत्यर्थः, हेतुमाहनित्यत्वप्रतिषेधादिति. अनित्यत्वादित्यर्थः, यत्र यत्रानित्यत्वं तत्र तत्र परिणामित्वं यथा मृदादाविति स्पष्टमेव, अस्यैव व्याख्यानं क्रियते- "न नित्यो विकार उपपद्यते” इति, यो हि विकारः स विकारत्वादेवाऽनित्यः-विकारत्वं हि कार्यत्वं कार्यश्चानित्य इति स्पष्टमेवेत्यर्थः / सांख्यसिद्धान्तमाह- अपेत इति, अपेतः= व्यक्तेरपेतः= स्वरूपप्रच्युतोपि महत्तत्वादिलक्षणो विकारोऽस्ति= सन्नेव न त्वऽसन्- विनाशप्रतिषेधात्= विनाशाऽप्रतियोगित्वात्= सत्त्वात् विनाशाप्रतियोगिनश्च सत्त्वं स्पष्टमेव, सांख्यमते विकाराणां नित्यत्वाभावेपि सत्त्वमस्ति-सद्वादस्वीकारात् सतश्च सर्वथा विनाशास्वीकारादित्याशयः, उक्तं च तैः" सत्कार्यम्" इति / उपसंहरति- इत्येवमिति, हेतुः= नित्यत्वप्रतिषेधादितिहेतुः 'व्यक्तेरपेतोपि विकारोस्ति' इत्यनेन स्वसिद्धान्तेन= सांख्यादिसिद्धान्तेन विरुध्यते इति विरुद्ध:- सांख्यसिद्धान्तविरुद्धस्य विकारासत्त्वस्यापदकत्वादित्यन्वयः / अत्र- " अत्रोदाहरणभाष्यम्- यथा सोयं विकार इति, महदहङ्कारपञ्चतन्मात्रैकादशेन्द्रियभूतसूक्ष्ममहाभूतानि विकारस्तस्य व्यक्तिः= धर्मलक्षणावस्थापरिणामस्तस्मादपाय इति, अत्र हेतुः= नित्यत्वप्रतिषेधादिति, तस्य व्याख्यानम्- न नित्यो विकार उपपद्यते इति, अपेतोपि विकारोस्ति-विनाशप्रतिषेधात् , सोयं नित्यत्वप्रतिषेधादिति हेतु: 'व्यक्तेरपेतोपि विकारोस्ति / इत्यनेन स्वसिद्धान्तेन विरुध्यते " इतितात्पर्यटीका / नित्यत्वप्रतिषेधात्= नित्यत्वाभावादितिहेतुना विकाराणामसत्त्वं प्राप्तं तच्च सांख्यसिद्धान्तविरुद्धमित्याशयः, अनित्यस्य सत्वं न संभवति नित्यस्यैव सत्त्वसंभवादिति नैय्यायिकाभिप्रायः / ____ उक्तहेतोः सिद्धान्तविरुद्धत्वं जिज्ञासते- कथमिति / जिज्ञासितमुपपादयति- व्यक्तिरित्यादिना, व्यक्तिः= प्राकट्यम्= आत्मलाभः= स्वरूपसत्त्वम् , अपायः= प्रच्युतिः= स्वरूपविनाश इतियावत् , स्वाभिप्रायमाह- यदीति, यद्यात्मलाभात प्रच्युतः= स्वरूपेणाविद्यमानोपि विकारोऽस्ति= सन्नेव तदा नित्यत्वप्रतिषेधः= नित्यत्वप्रतिषेधादितिहेर्नोपपद्यते- विकारस्य सत्त्वेन नित्यत्वलाभादित्याशयः / नित्यत्वस्वरूपमाह- यदिति, अस्तित्वमेव नित्यत्वमिति नियमाभावेपि व्यक्तेरपेतस्यास्तित्वं तु नित्य