________________ हेत्वाभासाः] न्यायभाष्यम्। नित्यत्वप्रतिषेधो नाम विकारस्याऽऽत्मलाभात् प्रच्युतेरुपपत्तिः- यदात्मलाभात् प्रच्यवते तदऽनित्यं दृष्टम्. यदस्ति न तदात्मलाभात् प्रच्यवते, अस्तित्वं चात्मलाभात् प्रच्युतिरिति विरुद्धावेतौ धर्मों न सह संभवत इति, सोयं हेतुर्य सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति // 6 // यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः॥७॥ विमर्शाधिष्ठानौ पक्षप्रतिपक्षावुभौ अनवसितौ प्रकरणं तस्य चिन्ता, विमर्शात् प्रभृति प्राङ् निर्णयात् यत् समीक्षणं सा जिज्ञासा यत्कृता स निर्णयार्थ प्रयुक्तः उभयपक्षसाम्यात् त्वमेव स्यात् अन्यथा व्यक्तरपेतस्यास्तित्वमेव न स्यादित्यर्थः / नित्यत्वप्रतिषेधस्वरूपमाह-नित्यत्वेति, प्रच्युतेरुपपत्तिः= प्रच्युतिरित्यर्थः / आत्मलाभात् प्रच्युतस्यानित्यत्वमाह- यदिति, यथा घटादिकमितिशेषः, तथा च यदि विकार आत्मलाभात्= स्वरूपात् प्रच्युतो भवति तदा तस्य नित्यत्वप्रतिषेध उपपद्यते इत्यर्थः / सत आत्मलाभात् प्रच्युतेरभावमाह- यदस्तीति, यदस्ति तन्नात्मलाभात् प्रच्यवते इति. यदि विकारोऽस्ति= सन्नेव तदा तस्यात्मलाभात् प्रच्युतिर्नोपपद्यते इत्यर्थः / पर्यवसितमाहअस्तित्वमिति, अस्तित्वं स्वरूपप्रच्युतिरिति च परस्परविरुद्धौ धर्माविति सह= एकत्र न संभवत इति विकाराणामस्तित्वं वा स्वरूपप्रच्युतिर्वोपपद्यते न तु द्वयमपीति नैय्यायिकाभिप्रायः, एतद्विरुद्धं च सांख्यैः स्वरूपप्रच्युतस्यापि विकारस्यास्तित्वं स्वीकृतं. तत्र सांख्यैः स्वरूपप्रच्युतिसाधनार्थं नित्यत्वप्रतिषेधादितिहेतुः प्रयुक्तः- नित्यत्वस्य स्वरूपप्रच्युतिप्रतिबन्धकत्वात्. तत्र नित्यत्वप्रतिषेधादितिहेतुर्विकारस्यास्तित्वसिद्धान्तेन विरुध्यते-- अस्तित्वे सति नित्यत्वप्रतिषेधानुपपत्तेः नित्यत्वप्रतिषेधे च सत्यस्तित्वानुपपत्तेरित्याशयः / उपसंहरति- सोयमिति, सोयं विरुद्धाख्यो हेतुर्य सिद्धान्तमाश्रित्य प्रवर्तते= प्रयुज्यते तमेव व्याहन्तीति सिद्धान्तविरुद्धत्वाद्विरुद्ध इत्युच्यते इत्यर्थः / यद्यपि विरुद्धः व्यभिचारी भवति तथापि साध्याभावव्याप्यत्वलक्षणदोषविशेषमाश्रित्य व्यभिचारितो विरुद्धस्य भेदः- व्यभिचारिणि साध्याभावव्याप्यत्वनियमासंभवादित्यलम् // 6 // प्रकरणसमं हेत्वाभासं लक्षयति-यस्मादिति, यस्मात् हेतोः साध्यसाधनार्थ प्रयुक्तात् प्रकरणस्य= पक्षप्रतिपक्षयोः= साध्यतदभावयोरर्थात् अयं पक्षः साध्यवान् वा साध्याभाववान् वेति चिन्ता जिज्ञासा जायते स हेतुनिर्णयार्थम्= साध्यसाधनार्थमपदिष्टः= प्रयुक्तः सन् प्रकरणसमः= सत्प्रतिपक्ष इत्यच्यते, एतादृशहेतोः साध्यतदभावेत्यभयव्याप्यत्वादेतस्मादक्ता चिन्ता जायते इति सूत्रान्वयः / अत्र- " तथा च निर्णयार्थ प्रयुक्तो हेतुर्यत्र निर्णयं जनयितुमशक्तस्तुल्यबलेन परेण प्रतिबन्धात् किं तु धर्मिणः साध्यवत्त्वं तदभाववत्त्वं वेति चिन्ताम्= जिज्ञासां प्रवर्तयति स प्रकरणसमः” इति विश्वनाथभट्टाः / व्याचष्टे- विमर्शेति, विमर्शाधिष्ठानौ= संशयमाश्रितौ= संशयेन प्रवृत्तौ अनवसितौ= असमाप्तौ=निर्णयात् पूर्वकालिको यौ पक्षप्रतिपक्षौ उक्तौ तावुभौ प्रकरणमित्युच्यते तस्य प्रकरणस्य चिन्ता= जिज्ञासा, साध्यतदभावविषयकत्वात् पक्षप्रतिपक्षौ साध्यतदभावावेव तयोरेव प्रकरणमिति नामधेयम् , सत्प्रतिपक्षस्थले साध्यतदभावयोरन्यतरस्य निश्चयो न भवतीति पक्षः साध्यवान् वा साध्याभाववान् वेति जिज्ञासा जायते यथा वह्निमान् पाषाणमयत्वादित्यत्र पाषाणमयत्वहेतुना वह्नितदभावयोरन्यतरस्य निश्चयासंभवादन्यतरजिज्ञासा जायते- किंविशिष्टः पक्ष इति / चिन्तापदार्थमाहे- विमर्शादिति, संशयमारभ्य निर्णयपर्यन्तं यत् समीक्षणम्= विचारः स एव जिज्ञासा सैव चिन्तेत्युच्यते. चिन्तनम्= विचारणं सा चिन्ता यत्कृता= येन प्रवृत्ता= येन न निवृत्ता सः= एतादृशो हेतुर्निर्णयार्थ प्रयुक्तः सन् प्रकरणसम इत्युच्यते, प्रकरणसमशब्दस्य व्युत्पत्तिमाह- उभयेति, उभयपक्षसाम्यात्= पक्षप्रतिपक्षयोः