________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. २आह्निकेप्रकरणमनतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते / प्रज्ञापनं तु- अनित्यः शब्दो नित्यधर्मानुपलब्धेरिति. अनुपलभ्यमाननित्यधर्मकमऽनित्यं दृष्टं स्थाल्यादि, नित्यः शब्दोऽनित्यधर्मानुपलब्धेः अनुपलभ्यमानाऽनित्यधर्मकं नित्यं दृष्टमाकाशादि ( इति ) / यत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार एव, या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश्च सा प्रकरणं प्रवर्तयति- यथा शब्दे नित्यधर्मो नोपलभ्यते एवमनित्यधर्मोपि. सेयमुभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति / कथम् ?. विपर्यये हि प्रकरणनिवृत्तेः- यदि नित्यधर्मः शब्दे गृह्यते ? न स्यात् प्रकरणं. यदि वाऽनित्यधर्मो गृह्येत? एवमपि निवर्तेत प्रकरणम् / सोयं हेतुरुभौ पक्षौ प्रवर्तयन् अन्यतरस्य निर्णयाय न प्रकल्पते // 7 // समानत्वात्= साध्यतदभावाभ्यां व्याप्यत्वात् प्रकरणमनतिवर्तमानः= पक्षप्रतिपक्षयोरनिवर्तक इति प्रकरणसम इत्युच्यते स च निर्णयाय समों न भवतीत्यन्वयः / प्रज्ञापनम्= उदाहरणम् , उदाहरतिअनित्य इति, नित्यस्य पदार्थस्य यो धर्मोऽविनाशित्वादिकं तदनुपलब्धेरित्यर्थः / दृष्टान्तमाह- अनुपलभ्येति, नोपलभ्यमानो नित्यपदार्थधर्मो यत्र तद् अनुपलभ्यमाननित्यधर्मकम् अनित्यं भवति यथा स्थाल्यादीति नित्यधर्मानुपलब्धेरितिहेतुना शब्दस्यानित्यत्वं प्राप्तमित्यन्वयः, नित्यत्वसाधकप्रयोगमाह-नित्य इति, प्रयोगद्यस्यापि परस्परव्याघातकत्वात् प्रकरणसमत्वम् / अत्र यथा ह्यविद्यमानस्य नित्यधर्मस्यानुपलब्धिः संभवति तथा विद्यमानस्यापि प्रतिबन्धकात् संभवतीति नित्यधर्मानुपलब्धेरिति हेतुना शब्दे नित्यत्वानित्यत्वयोरन्यतरनिश्चयो न संभवतीति प्रकरणचिन्ता प्रवर्तते एव न निवर्तते इत्ययं हेतुः प्रकरणसम इत्यर्थः / अत्र “यथा नित्यत्वपक्षे नित्यधर्मानुपलब्धिरेवमनित्यत्वपक्षेपि नित्यधर्मानुपलब्धिः सेयं तत्त्वानुपलब्धिमात्रविवक्षयोभयपक्षसमा. प्रकरणसमा तु यथा प्रकरणमनिश्चायकमेवमियमपीत्यर्थः व्युत्पत्तिमात्रं चैतत्. प्रकरणसमपदस्य प्रवृत्तिनिमित्तं तु सत्प्रतिपक्षत्वमन्यथाऽनका. न्तिकस्यापि प्रकरणसमत्वप्रसङ्गादिति" इति तात्पर्यटीका। सव्यभिचारप्रकरणसमयो दमुपपादयति- यत्रेति, समानः= साध्यतदभावयोः समानः सन् एक एव यः संशयकारणं भवति स यत्र हेतुत्वेन प्रयुज्यते स संशयसम इत्युच्यते यथा संशयो विचारसमापको न भवति तथा सोपीति संशयसमः स च सव्यभिचार एव यथा धूमवान् वढेरित्यत्र वह्निघूमतदभावयोः समान एव. स च सत्प्रतिपक्षानुत्थापकत्वात् प्रकरणसमो न भवतीत्यर्थः। प्रकरणसमस्य विशेषमाह- येति, या विमर्शस्य= संशयस्य विशेषापेक्षिता= निर्णयापेक्षिता या चोभयोः पक्षयोःप्रक्षप्रतिपक्षयोः= साध्यतदभावयोर्विशेषानुपलब्धिः सा प्रकरणं प्रवर्तयति तादृशप्रकरणप्रवर्तको हेतुः प्रकरणसम इत्युच्यते / विशेषानुपलब्धिमाह- यथेति, नित्यधर्मः= नित्यपदार्थधर्मः नित्यत्वसाधकः, अनित्यधर्मः= अनित्यपदार्थधर्मः= अनित्यत्वसाधकोपि नोपलभ्यते इत्यन्वयः / उपसंहरति-सेयमिति / उभयपक्षयोः= नित्यत्वानित्यत्वपक्षयोः / प्रकरणचिन्ताम्= साध्यतदभावयोरन्यतरस्य जिज्ञासाम् / प्रकरणचिन्ताप्रवृत्ति जिज्ञासते-कथमिति, उत्तरमाह-विपर्यये इति, विपर्यये= प्रकरणचिन्ताया अभावे प्रकरण निवृत्तिः= विचारनिवृत्तिः स्यात् न च विचारो निवर्तते इत्युभयपक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयतीत्यन्वयः / विपर्ययं विशदयति- यदीति, न स्यात् न प्रवर्तेत, एवमपि= अनित्यधर्मग्रहणेपि / उपसंहरति- सोयमिति, अयम्= प्रकरणसमः / पक्षौ= पक्षप्रतिपक्षी, अन्यतरस्य= पक्षप्रतिपक्षयोः= साध्यतदभावयोरन्यतरस्य निर्णायको न भवतीति हेत्वाभासः / यत्रैक एव हेतुः साध्यतभावयोरुभयोरपि व्याप्यो भवति स सव्यभिचारः, यत्र हेतुद्वयं परस्परसाध्याभावव्याप्यं प्रयुज्यते स प्रकरणसम इतिनिष्कर्षः // 7 //