________________ हेत्वाभासाः] न्यायभाष्यम्। साध्याविशिष्टः साध्यत्वात् साध्यसमः॥८॥ द्रव्यं छायेति साध्यं गतिमत्त्वादिति हेतुः साध्येनाविशिष्टः- साधनीयत्वात् साध्यसमः= अयमप्यसिद्धत्वात् साध्यवत् प्रज्ञापयितव्यः, साध्यं तावदेतत् किं पुरुषवच्छायापि गच्छति ? आहोस्वित् आवरकद्रव्ये संसर्पति आवरणसंतानादसंनिधिसंतानोयं तेजसो गृह्यते ? इति , सर्पता खलु द्रव्येण यो यस्तेजोभाग आत्रियते तस्य तस्याऽसंनिधिरेवाऽविच्छिन्नो गृह्यते इति / आवरणं तु प्राप्तिप्रतिषेधः // 8 // कालात्ययापदिष्टः कालातीतः // 9 // साध्यसमं हेत्वाभासं लक्षयति- साध्येति, साध्यत्वात्= साध्यवत् साधनीयत्वात् साध्याविशिष्टः= साध्यसदृशः= साध्यवत् निश्चयाविषयीभूतो हेतुः साध्यसम इत्युच्यते यथा छाया द्रव्यं गतिमत्त्वादित्यत्र छायायां गतिमत्त्वं निश्चितं नास्तीति साध्यसमः- साध्यत्वादिति सूत्रान्वयः / व्याचष्टे- द्रव्यमिति, अत्र छायायां द्रव्यत्वं साध्यं गतिमत्त्वादितिहेतुः यत्र यत्र गतिमत्त्वं तत्र तत्र द्रव्यत्वं यथा शरीरादाविति स्पष्टमेव, अत्र छायायां गतिमत्त्वं हेतुः सिद्धं नास्तीति साध्येनाविशिष्टः= साधनीयत्वादेव साध्यसमोस्ति / उक्तं व्याचष्टे- अयमपीति, गतिमत्त्वादित्ययं हेतुरपि छायायामद्यावधि असिद्धत्वात् साध्यवत्= द्रव्यत्ववत् प्रज्ञापयितव्यः= हेत्वन्तरेण साधनीय एवेति साध्यसम इत्युच्यते इत्यन्वयः / छायायां गतिमत्त्वस्य साध्यत्वमाह- साध्यमिति, एतत्= गतिमत्त्वम् / गतिमत्त्वस्य साधनार्थ संशयपक्षमाह-किमिति / द्वितीयपक्षमाह- आवरकेति, आवरकद्रव्ये इति- तेजसः= प्रकाशस्यावरके द्रव्ये शरीरादौ संसर्पति गच्छति सति आवरणसंतानात्= आवरककृतं यत् प्रकाशावरणं तस्य संतानात्= कालिकनैरन्तर्यात् तेजसः= प्रकाशस्य असंनिधिसंतानः= संयोगाभावनैरन्तर्यमिदं तादृशदेशे (छायाविशिष्टत्वेन गृह्यमाणे देशे ) गृह्यते किमित्यन्वयः, अस्मिन् पक्षे प्रकाशावरकं शरीरादिकमेव गच्छति न तु छायापि छाया हि प्रकाशावरणमात्रं किं वा प्रकाशावरणकृतं प्रकाशसंयोगाभावमात्रमिति न तस्य गत्तिमत्त्वमुपपद्यते किं तु प्रकाशावरके शरीरादौ वर्तमानं गतिमत्त्वं छायायां भ्रान्त्या प्रतीयते यथा कण्ठोपरि वर्तमानं मुखं भ्रान्त्या दर्पणे प्रतीयते. अन्यथा शरीरादीनामगमनेपि छाया गच्छेत् न चैवमस्तीति न छाया गच्छतीत्यर्थः / सिद्धान्तमाह- सर्पतेति, सर्पता= गच्छता द्रव्येण शरीरादिना योयस्तेजोभागः आवियते तस्य तस्य तेजोभागस्याऽसंनिधिः= छायासबन्धयोग्यदेशे संयोगाभाव एवाऽविच्छिन्नः= नैरन्तर्येण यो गृह्यते स एव छाया न तु द्रव्यान्तरं येन छायायां गतिमत्त्वं स्यादिति गतिमत्त्वं छायायामसिद्धत्वात् साध्यसमस्ततश्च न द्रव्यत्वसाधक इत्यन्वयः / वस्तुतस्त्वत्र- 'सर्पता द्रव्येण यो यो भूभाग आत्रियते तत्र तत्र यस्तेजसोऽसंनिधिः स एव छाया न द्रव्यान्तरम्' इत्येवं वक्तव्यमासीत् / आवरणपदार्थमाह- आवरणमिति, प्राप्तिप्रतिषेधः= संयोगाभावस्तेजसः // 8 // ___ कालातीतं हेत्वाभासं लक्षयति- कालेति, यस्य हेतोरेकदेशः कालात्येन युक्तो भवति= पक्षग्रहणकाले न संभवति एतादृशोऽपदिष्टः= निर्दिष्टो हेतुः कालातीत इत्युच्यते यथा 'नित्यः शब्दः संयोगव्यङ्गयत्वात्= भेरीदण्डादिसंयोगव्यङ्गयत्वात्' इत्यत्र भेरीदण्डादिसंयोगानन्तरं शब्दग्रहणं भव. तीति शब्दग्रहणकाले संयोगव्यङ्गयत्वादिति हेतोरेकदेशः संयोगः= भेरीदण्डादिसंयोगः स्वरूपेण न संभवतीत्यत्र संयोगव्यङ्गयत्वादितिहेतुः कालात्ययापदिष्टत्वात् कालातीतः यथा च पर्वतो वह्निमान केनचित् संबन्धेन वह्रथुत्पादकव्यापारविशिष्टत्वादित्यत्र पर्वतग्रहणकाले साध्यसाधनकाले वा हेत्वेकदेशो वह्नयुत्पादकव्यापारो नास्ति तदनन्तरमेव वह्निसंभवादिति वह्नयुत्पादकव्यापारविशिष्टत्वादिति हेतुरत्र कालातीत इति सूत्रान्वयः / अत्र- "यस्यापदिश्यमानस्य कालात्ययेनैकदेशो युज्यते स एकदेशात्ययात्