________________ 78 प्रसन्नपदापरिभूषितम्- [1 अध्याये. २आह्निकेकालात्ययेन युक्तो यस्यार्थस्यैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत इत्युच्यते, निदर्शनम्-नित्यः शब्दः संयोगव्यङ्गयत्वाद् रूपवत. प्रागू च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते तथा च शब्दोप्यवस्थितो भेरीदण्डसंयोगेन व्यज्यते दारुपरशुसंयोगेन वा तस्मात् संयोगव्यङ्गयत्वात् नित्यः शब्दः. इत्ययमहेतुः कालात्ययापदेशात्= व्यञ्जकस्य संयोगस्य कालं न व्यङ्गयस्य रूपस्य व्यक्तिरत्येति- सति प्रदीपघटसंयोगे रूपस्य ग्रहणं भवति. न निवृत्ते संयोगे रूपं गृह्यते, निवृत्ते (तु)दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते विभागकाले, सेयं शब्दस्य व्यक्तिः संयोगकालमत्येतीति न संयोगनिमित्ता भवति, कस्मात् 1. कारणाभावाद्धि कार्याभाव इति, एवमुदाहरणसाधय॑स्याभावादसाधनमयं हेतुर्हेत्वाभास इति / कालात्ययापदिष्टः कालातीत इत्युच्यते उदाहरणम्- नित्यः शब्दः संयोगव्यङ्ग्यत्वादिति उपलब्धिकाले संयोगो नास्ति सोयं संयोगो हेतुविशेषणत्वेनोपात्त उपलब्धिकालमत्येति यदोपलभ्यते (शब्दः) तदा संयोगो नास्ति दारुवश्चने दारुपरशुसंयोगनिवृत्तौ शब्दोपलब्धिरिति" इति वार्तिकम् / ____ व्याचष्टे-कालात्ययेनेति, अपदिश्यमानस्य निर्दिष्टस्य= प्रयुक्तस्य यस्यार्थस्य= हेतोरेकदेशः कालात्ययेन= अतिकालेन युक्तः= अवर्तमानः स कालात्यय इति कालातीत इत्युच्यते- कालात्यये अपदिष्टः कलात्ययापदिष्टस्तत्त्वात्, कालम्= पक्षग्रहणकालं साध्यसाधनकालं वाऽत्येतीति कालातीत इत्यन्वयः / उदाहरति-नित्य इति, शब्दः पक्षः नित्यत्वं साध्यम्. रूपे प्रकाशसंयोगव्यङ्गयत्वं शब्दे च भेरीदण्डादिसंयोगव्यङ्ग्यत्वं व्यङ्ग्यत्वे च कृतकत्वनिवृत्त्या नित्यत्वं प्राप्नोतीत्याशयः / दृष्टान्तसमन्वयमाह-प्रागिति, व्यक्तेः= अभिव्यक्तितः प्राक्= पूर्वम् ऊर्ध्वम्= पश्चाच्चावस्थितम्= विद्यमानमेव घटरूपं प्रदीपघटसंयोगेन व्यज्यते तथा च= तथैव रूपवदेव शब्दोपि स्वाभिव्यक्तेः प्रागूचावस्थितः= विद्यमान एव भेरीदण्डसंयोगेन दारुपरशुसंयोगेन च व्यज्यते नोत्पाद्यते येनानित्यः स्यादिति भेरीदण्डादिसंयोगव्यङ्गयत्वान्नित्यः शब्द इत्येवं पूर्वपक्षेण शब्दनित्यत्वमुपपादितम् / उक्तहेतौ कालातीतत्वमुपपादयति- इत्ययमिति, संयोगव्यङ्गत्वादिति शब्दनित्यत्वस्याहेतुः= असाधकः- कालात्ययापदेशात्= कालात्ययापदिष्टत्वात्। रूपे प्रकाशसंयोगाभिव्यङ्गयत्वमुपपादयति-व्यञ्जकस्येति, व्यङ्गयस्य प्रकाशसंयोगाभिव्यङ्गयस्य दृष्टान्तस्य रूपस्य व्यक्तिः= अभिव्यक्तिय॑ञ्जकस्य प्रकाशसंयोगस्य कालं नाऽत्येति यतः प्रदीपसंयोगे सत्येव रूपग्रहणं भवति प्रदीपसंयोगे निवृत्ते च रूपं न गृह्यते इत्यन्वयव्यतिरेकाभ्यां रूपे प्रकाशसंयोगाभिव्यङ्गयत्वमुपपद्यते, शब्दे संयोगाभिव्यङ्यत्वस्याभावमाह- निवृत्ते इति, दारुपरशुसंयोगे निवृत्ते सति दारुपरशुविभागकाले दूरस्थेन शब्दः श्रूयते अभिव्यञ्जकनिवृत्तौ चाभिव्यङ्गयस्याभिव्यक्तिर्न भवति यथा प्रकाशसंयोगनिवृत्तौ रूपस्य तथा च यदि शब्दोपि भेरीदण्डादिसंयोगाभिव्यङ्ग्यः स्यात्तदा संयोगनिवृत्तौ न गृह्येत गृह्यते च संयोगनिवृत्तावपीति न संयोगाभिव्यङ्गयः शब्द इत्यन्वयः / उपसंहरति- सेयमिति, व्यक्तिः= अभिव्यक्तिः=ग्रहणम् , संयोगकालमत्येति= संयोगकाले न भवतीति न भेरी. दण्डादिसंयोगनिमित्ता संभवति- कारणं विना तत्कार्यासंभवात् / शब्दग्रहणस्य संयोगकारणकत्वाभावं जिज्ञासते- कस्मादिति / उत्तरमाह- कारणेति, कारणाभावे कार्य न भवतीति नियमात् यदि शब्दग्रहणस्य भेरीदण्डादिसंयोगः कारणं स्यात्तदा तादृशसंयोगे निवृत्ते शब्दग्रहणं न स्यात् भवति च संयोगे निवृत्तेपि शब्दग्रहणमिति न शब्दग्रहणं तादृशसंयोगकारणकं किं तु तादृशसंयोगेन शब्द उत्पाद्यते उत्पन्नश्च शब्दस्तादृशसंयोगानन्तरमपि ग्रहणसामग्र्या गृह्यते इत्यर्थः। उपसंहरति- एवमितिएवमुक्तरीत्या उदाहरणसाधर्म्यस्य= रूपसादृश्याभावादू अर्थाद् यथोक्तरीत्या रूपे प्रकाशसंयोगाभिव्यङ्गयत्वमुपपद्ये तथा शब्दे भेरीदण्डादिसंयोगाभिव्यङ्गयत्वं नोपपद्यते इति संयोगव्यङ्गयत्वादित्ययं हेतुरसाधनम्= शब्दनित्यत्वसाधकं न भवतीति कालातीताख्यो हेत्वाभास एवेत्यन्वयः /